________________
१६४
मुहूर्तचिंतामणी
दशानामन्यतमं गृहं यद्युदयो लग्नं स्यात्तदापि विजय एव शत्रुक्षयः स्यादित्यर्थः ॥ २ ॥ अथान्यं प्रश्नं मंजुभाषिण्याह
रिपुजन्मलग्नभमथाधिपौ तयोस्तत एव वोपचयस चेद्भवेत् ॥ हिबुके सुनेऽथ शुभवर्गकस्तनौ यदि मस्तकोदयगृहं तदा जयः ॥ ३ ॥
रिपुजन्मलग्नभमिति ॥ रिपोः शत्रोः जन्मलग्नभं जन्मलग्नं जन्मराशिश्व तच्चेप्रभाके चतुर्थे द्युने सप्तमे वा स्यात्तदा राज्ञो जयो भवेत् । अथवा तयोः शत्रुज - न्मलग्नराश्योरधिपौ स्वामिनौ प्रश्भलग्नाद्धिबुके छुने वा स्यातां तदापि विजय एव अथवा तत एव ताभ्यां शत्रोर्जन्मलग्नजन्मराशिभ्यामेवोपचयगृहं ३, ६, १०, ११ प्रश्नलग्राद्धिबुके द्युने वा स्यात्तदापि जय एव । अथवा तनौ प्रश्भलग्ने शुभवर्गकः शुभग्रहाणां षड्वर्गकचेत्स्यात्तदापि जय एव । अथवा यदि मस्तकोदयाः शीर्षोदयराशयः प्रश्भलग्नगताश्चेत्स्युस्तदापि जय एव । वराहः । उदयमुदयपं वा जन्मभं जन्मपं वा तदुपचयगृहं वा वीक्ष्य लग्ने यियासोः । विनिहतमरिपक्षं विद्धि शत्रोरिदं वा हिबुकगृहसमेतं पृच्छतोऽस्तस्थितं वेति ॥ ३ ॥
अथान्यं प्रश्नं त्रोटकेनाह
यदि पृच्छितनौ वसुधारुचिरा शुभवस्तु यदि श्रुतिदर्शनगम् ॥ यदि पृच्छति चादरतश्च शुभग्रहदृष्टयुतं चरलग्नमपि ॥ ४ ॥
यदीति ॥ अत्र वसुधापतेर्जय इत्यनुवर्तते । यदि ष्टच्छितनौ प्रश्भलने वसुधा भूमी रुचिरा स्यात् अथवा यदि शुभवस्तु मंगलवस्तु मंगलवस्त्राभरणादि श्रुतिदर्शनगं श्रवणगोचरम् दर्शनमत्र चाक्षुषम् । अथवा प्रष्टा आदरतो दैवज्ञं पृच्छति तदापि वसुधापतेर्जयः स्यादिति सर्वत्र व्याख्येयम् । अथवा चरलनं मेषकर्कतुलामकराख्यं यदि प्रश्ननं शुभग्रहैष्टं तं वा तदापि जय एव ॥ ४ ॥
अथाशुभफलदं प्रश्नं मालिन्याह
विधुकुजयुतलग्ने सौरिदृष्टेऽथ चंद्रे मृतिभमदनसंस्थे लग्नगे भास्करेऽपि ॥ हिबुकनिधनहोराद्यूनगे वापि पापे
सपदि भवति भंगः प्रश्नकर्तुस्तदानीम् ॥ ५ ॥ विधुकुजेति ॥ चंद्रमंगलयुक्ते लग्ने सौरिणा शनिना दृष्टे तदा प्रश्नकर्तुर्भगः पराजयो नाशो वा स्यात् । अथ चंद्रे मृतिभमदनसंस्थे चंद्रे अष्टमे सप्तमे वा लग्ने सूर्ये च सति एवंविधे योगे प्रष्टुः सपदि भंगः स्यात् अव्ययानामनेकार्थत्वात् । अपिशब्दो विपर्ययार्थः ।
Aho! Shrutgyanam