________________
द्विरागमनप्रकरणम् ।
१५९
ध्रुवचराणि प्रसिद्धानि अस्रपो मूलम् मृदूनि प्रसिद्धानि एतेषु द्विरागमं चरेत्कुर्यात् । अत्र सामान्यतः गुरुशुक्रास्तादिविचारः पूर्वोक्त एव ज्ञेयः ॥ १ ॥ अथ संमुखशुक्रदोषं प्रहर्षिण्याह
दैत्येज्यो ह्यभिमुखदक्षिणे यदि स्याद्गच्छेयुर्न हि शिशुगर्भिणीनवोढाः ॥ बालश्चेजति विपद्यते नवोढा चेद्वन्ध्या भवति च गर्भिणी त्वगर्भा ॥ २ ॥
दैत्यज्य इति । दैत्येज्यः शुक्रः गंतव्यदिगभिमुखे गंतुर्दक्षिणभागे वा स्थितः स्यात्तदा शिशुर्वालकः गर्भिणी गर्भवती नवोढा नूतनपरिणीता एता न गच्छेयुः । यदि प्रतिशुक्रे गच्छेयुस्तदेत्याह बाल इति चेद्वालो गच्छति तदा विपद्यते म्रियते नवोढा चेजति तदा वंध्या अपत्यसंभावनारहिता स्यात् । गर्भिणी चेद्रजति तदा अगर्भा गर्भस्त्राववती स्यात् । यदि शुक्रः पूर्वस्यामुदितः पूर्वी गंतुः संमुखः उत्तरां गंतुर्दक्षिणः पश्चिमां गंतुः ष्टष्ठे दक्षिणां गंतुर्वामे स्यात् तदा पूर्वोत्तरे दिशौ न गच्छेत् । यदि पश्चिमायामुदितः शुक्रः तदा पश्चिमां गंतुः संमुखः दक्षिणां गंतुर्दक्षिणः पूर्वी गंतुः पृष्ठे उत्तरां गंतुर्वामे तदा पश्चिमदक्षिणदिशौ न गच्छेत् केचिदीपोत्सवप्रतिपदि नक्षत्रादिनियमं विनैव वधूप्रवेशं वांछंति । उक्तं च । अस्तंगते गुरौ शुक्रे सिंहस्थे वा बृहस्पतौ । दीपोत्सवदिने चैव कन्या भर्तृगृहं विशेदिति ॥ २ ॥
अथ प्रतिशुक्रापवादं मंजुभाषिण्याह
नगरप्रवेशविषयाद्युपद्रवे करपीडने विबुधतीर्थयात्रयोः ॥ नृपपीडने नववधूप्रवेशने प्रतिभार्गवो भवति दोषकृन्न हि ॥ ३ ॥ नगरप्रवेशेति ॥ विषयो देशः आदिशब्देन ग्रामः तस्योपद्रवे अन्यराजकृतोपद्रवे दुर्भिक्षाद्युपद्रवे वा सति गंतव्यदिशि प्रतिशुक्रदोषो नास्ति । करपीडने विवाहोद्देशेन यात्रायां सत्यां विबुधा देवास्तेषां यात्रा यथा नगरकोटयात्रा तीर्थयात्रा प्रयागादिका तयोः नृपपीडने राज्ञः सकाशात् पीडायां दंडादिकृतायां सत्याम् नववधूतनपरिणीता वधूः तस्याः प्रवेशे प्रतिभार्गवः संमुखशुक्रः दोषकृन्नहि भवति । भार्गवः । स्वभवनपुरप्रवेशे देशानां विभ्रमे तथा । नूतनवध्वा गमने प्रतिशुक्रविचारणं नास्ति । एकग्रामे पुरे वापि दुर्भिक्षे राजविप्लवे । विवाहे तीर्थयात्रायां प्रतिशुक्रो न दुष्यतीति बादरायणोक्तेः ॥ ३ ॥
अथ प्रौढस्त्रीणां द्विरागमने तथा गोत्रपरत्वेन च प्रतिशुक्रापवादांतरमिंद्रवंशयाहपिsये गृहे चेकुचपुष्पसंभवः स्त्रीणां न दोषः प्रतिशुक्र संभवः ॥
Aho! Shrutgyanam