________________
१५८
मुहूर्तचिंतामणौ अथ नक्षत्रशुद्धिमनुष्टभाह
ध्रुवक्षिप्रमृदुश्रोत्रवसुमूलमघानिले ॥
वधूप्रवेशः सन्नेष्टो रिक्तारार्के बुधे परैः ॥२॥ ध्रुवेति ॥ ध्रुवादिनक्षत्रेषु वधूप्रवेशः सन् शुभफलः रिक्ताराके रिक्तासु ४, ९, १४ आरे भौमे अर्के रवौ न इष्टः अर्थादन्यतिथिषु रविभौमव्यतिरिक्तवारेषु शस्त इत्यर्थः । अपरैर्बुधवारेऽपि नेष्टः ॥ २ ॥
अथ विशेष महेंद्रवजयाहज्येष्टे पतिज्येष्टमथाधिके पति हत्यादिमे भर्तृगृहे वधूः शुचौ ॥ श्वश्रृं सहस्ये श्वशुरं क्षये तनुं तातं मधौ तातगृहे विवाहतः ॥ ३ ॥
___इति मु० सप्तमं वधूप्रवेशप्रकरणं समाप्तम् ॥ ७॥
ज्येष्ठे पतिज्येष्ठमिति ।। विवाहतो विवाहानंतरं आदिमे ज्येष्ठे भर्तृगृहे स्थिता वधूः पतिज्येष्ठं हंति आदिमे अधिके पतिं भर्तारं हंति आदिमे शुचावाषाढे श्वश्रू भर्तृजननी हंति आदिमे सहस्ये पौषे श्वशुरं भर्तुः पितरं हंति । आदिमे क्षये क्षयमासे भर्तृगृहे तिष्ठंती तनुं निजं शरीरं हंति म्रियत इत्यर्थः । तथा आदिमे मधौ चैत्रे तातगृहे पितृगृहे तिष्ठंती तातं पितरं हंतीत्यर्थः । यदि पित्राद्यभावस्तर्हि तन्मासि तगृहावस्थितौ सत्यामपि न कोऽपि दोष इत्यर्थः । न भयं तेषामभावे इत्युक्तेः । ज्योतिर्निबंधे । विवाहात्प्रथमे पौषे आषाढे चाधिमासके न सा भर्तृगृहे तिष्ठेच्चैत्रे तातगृहेऽपि च ॥ आषाढो ज्येष्ठोपलक्षकः ॥३॥ इति मुहूर्तचिंतामणौ प्रमिताक्षरायां सप्तमं वधूप्रवेशप्रकरणं समाप्तम् ॥ ७ ॥
___अथ द्विरागमनप्रकरणप्रारंभः॥ __ अथ द्विरागमनप्रकरणं व्याख्यायते । तत्र वधूप्रवेशानंतरं परावृत्त्य पितृगृहं प्राप्ताया वध्वाः पुनर्भर्तृगृहे प्रवेशो द्विरागमनशब्दवाच्यः तन्मुहूर्त पंचचामरच्छंदसाह
चरेदोजहायने घटालिमेषगे रवौ रवीज्यशुद्धियोगतः शुभग्रहस्य वासरे ॥ नृयुग्ममीनकन्यकातुलावृषे विलग्नके
द्विरागर्म लघुधुवे चरेऽस्रपे मृदूडुनि ॥ १॥ चरेदिति ॥ अथानंतरं वक्ष्यमाणेषु लघुध्रुवादिनक्षत्रेषु ओजहायने विषमवर्षे प्रथम तृतीयादिवर्षे तथा घटालिमेषगे रवौ कुंभे सृश्चिके मेषे रवौ सति तथा वरस्य स्वीज्यशुद्धियोगतः शुभग्रहस्य वारे मिथुनमीनकन्यातुलावृषाणामन्यतमे लग्ने शुभयुतद्दष्टे सति ल
Aho ! Shrutgyanam