________________
विवाहप्रकरणम् ।
१३७
रामतस्त्रिंशद्धटिकोत्तरं कृताश्चतस्त्रो घटिकाः विषनाडिकाः शुभकार्ये वर्ज्याः स्युरिति तृतीयश्लोकेनान्वयः । एवं सर्वत्र व्याख्येयम् । के रोहिण्याम् अजभे पूर्वाभाद्रपदायाम् तदेवं षष्टिघटिकात्मके नक्षत्र भोगे ध्रुवका उक्ताः । न्यूनाधिकत्वे स्पष्टीकरणमाह । अथो इति । विषनाडिका ध्रुवाः खरामत इत्येवमादयः इष्टनक्षत्र भोगेन निघ्नाः खतर्कैः षष्ट्या भाजिताः तथा विषनाडिका अपि भोगेन निघ्नाः षष्ट्या भाजिताः लब्धाः स्पष्टा भवेयुरित्यर्थः । परिहारमाह गुरुः । चंद्रो विषघटीदोषं हंति केंद्रत्रिकोणगः । लग्नं विना शुभैर्दृष्टः केंद्रे वा लग्नपस्तथेति । विषनाड्युत्थितं दोषं हंति सौम्यर्क्षगः शशी । मित्रदृष्टोऽथवा स्वीयवर्गस्थो लग्नपोऽपि वेति । दैवज्ञमनोहरे तिथिवारविषघटिका उक्ताः । तिथीषुनागाद्रिगिरीषुवारिधिर्गजाद्रिदिक्पावकदिग्विभाकराः । मुनीभसंख्याः प्रथमात्तिथेः क्रमात्परं विषं स्याद्घाटिकाचतुष्टयम् ११, ५, ८, ७, ७, ५, ४, ८, ७, १०, ३, १०, १२, ७, ८ नखा द्वयं द्वादश दिक् च शैला बाणाश्च तत्त्वानि यथाक्रमेण । सूर्यादिवारेषु परं चतस्त्रो नाड्यो विषं स्यात्खलु वर्जनीयम् २०,२, १२, १०, ७, ९, २५ ॥ ४९ ॥ ५० ॥ ५१ ॥ अथ दुर्मुहूर्तदोषं विवक्षुरादौ दिवामुहूर्तान्मालिनीछंदसाह -
गिरिशभुजगमित्राः पित्र्यवस्वं बुविश्वेऽभिजिथ च विधातापींद्र इंद्रानलौ च ॥ निर्ऋतिरुदकनाथोऽप्यर्यमाथो भगः स्युः क्रमश इह मुहूर्ता वासरे बाणचंद्राः ॥ ५२ ॥ गिरिशेति ॥ अथ बाणचंद्रा इत्युक्तेर्दुर्मुहूर्तस्य पार्थक्येन लक्षणं नोक्तम् | इंद्रानलौ इंद्राग्नी एते वासरे पंचदश मुहूर्ताः स्युः ॥ १२ ॥
रात्रि मुहूर्ताननुष्टुभाह
शिवोऽजपादादष्टौ स्युर्भेशा अदितिजीवकौ ॥ विष्णवर्कत्वाष्ट्रमरुतो मुहूर्ता निशि कीर्तिताः ॥ ५३ ॥
शिव इति ॥ प्रथममुहूर्तस्वामी शिव एवं अजपादादष्टौ भेशाः नक्षत्रस्वामिनो मुहूर्तेशाः स्युः । यथा अजपादः अहिर्बुध्यः पूषा अश्विनौ यम अग्निः ब्रह्मा सोम इत्यष्टौ ततो दशममुहूर्तोऽदितिः जीवको गुरुः विष्ण्वर्कत्वाष्ट्रमरुतः प्रसिद्धाः एते सर्वे निशि मुहूर्ताः प्रकीर्तिताः । अह्नः पंचदशो भागो मुहूर्तोऽथ तथा निशीति कश्यपोक्तेः ॥ ९३ ॥
अथ दुर्मुहूर्तान् भुजंगप्रयातेनाह
वावर्यमा ब्रह्मरक्षश्च सोमे कुजे वह्निपित्र्ये बुधे चाभिजित्स्यात् ॥
Aho! Shrutgyanam