________________
अध्यायः ४ ]
मानसोल्लासः। दीप्तिहीनं गतच्छायं जठरं तद् विदुर्बुधाः । दारिद्यजननं यस्मात् तस्मात् तत् परिवर्जयेत् ॥ ४४४ ॥ मौक्तिकं विद्रुमध्छायमतिरक्तं विदुर्बुधाः । तस्मिन् सन्धारित मृत्युञ्जयते नात्र संशयः ॥ ४४५ ।। उपर्युपरि निष्ठन्ति वलयो यत्र मौक्तिके । त्रिवृत्तं नामतः ख्यानं दुर्भगत्वविधायकम् ॥ ४४६ ॥ अवृत्तं वलनं यत् तु चर्पटं तनिगद्यते । मौक्तिकं धियते येन तस्य कीर्तिर्भवेत् सदा ॥ ४४७ ॥ त्रिकोणं व्यसमाख्यातं सौभाग्यक्षयकारकम् । दीर्घ यत् तत् कृशं प्रोक्तं प्रज्ञाविध्वंसकारकम् ।। ४४८ ॥ निर्भुममेकतो यत् तु कृशपार्थ तदुच्यते । सदोष मौक्तिकं नित्यं निरुद्योगकरं हि तत् ॥ ४४९ ॥ अवृत्तं पीटकोपेतं खण्डं सम्भिनरूपितम् । अरम्यं गुणहीनं च स्वल्पमौल्यं हि मौक्तिकम् ॥ ४५० ॥ तारकाधुतिसङ्काशं सुतारं तन्निगद्यते । सुवृत्तं मौक्तिकं यत् स्याद् गुणवत् तत् प्रकीत्येते ॥ ४५१ ॥ स्वच्छं दोषविनिर्मुक्तं निर्मलं मौक्तिक मतम् । गुरुत्वं तोलने यस्य तद् घनं मौक्तिकं मतम् ॥ ४५२ ।। शीतांशुविम्बसङ्काशं मौक्तिकं स्निग्धमुच्यते । व्रणरेखाविहीनं यत् तत् स्यादस्फुटितं शुभम् ॥ ४५३ ।। ईटक्सर्वगुणोपेतं मौक्तिकं येन धार्यते । तस्यायुर्वर्धते लक्ष्मीः सर्वपापं प्रणश्यति ॥ ४५४ ॥ चतुर्था मौक्तिकच्छाया पीता च मधुरा सिता । नीला चेति समाख्याता रत्नतत्त्वपरीक्षकः॥ ४५५ ॥
Aho ! Shrutgyanam