________________
६८
मानसालासः।
[विंशतिः २ वंशजं शशिसङ्काशं ककोलीफलमात्रकम् । प्राप्यते बहुभिः पुण्यैस्तद् रक्ष्यं घेदमन्त्रतः ।। ४३२ ॥ वर्पोपलसमं दीप्त्या पाश्चजन्यकुलोद्भवम् । कपोताण्डप्रमाणं तत् कान्तं पापहरं परम् ॥ ४३३ ॥ शुक्तिजन्माम्बुधेर्मध्ये सिंहले चारवाटके । पारसीके बर्बरे च भवेन्मुक्ताफलं शुभम् ।। ४ ३४ ॥ स्वात्यां स्थिते रवौ मेधैर्ये मुक्ता जलबिन्दवः । निगीः शुक्तिभिर्मुक्ता जायन्ते निर्मलत्विषः ॥ ४३५ ॥ स्थूला मध्यास्तथा सूक्ष्मा बिन्दुमानानुसारतः। भवन्ति मुक्तास्तासां च मूल्यं तन्मानरूपतः ॥ ४३६ ॥ रुक्मिण्याख्या भवेच्छुक्तिस्तस्यां जातं प्रमौक्तिकम् । निर्मलं कुकुमच्छायं जातीफलसमं वरम् ॥ ४३७ ।। अमूल्यं तद् विनिर्दिष्टं रन लक्षणवेदिभिः । दुर्लभं नृपयोग्यं स्यात् स्वल्पभाग्यैर्न लभ्यते ॥ ४३८ ॥ सुस्निग्धं मधुरच्छायं मौक्तिकं सिंहलोद्भवम् । आरवाटसगुत्पन्नं पीतच्छायं सुनिर्मलम् ॥ ४३९ ॥ पारसीकोद्भवं स्वच्छं सितं मुक्ताफलं शुभम् । ईपच्छ्यामं च रूक्षं च मौक्तिकं बर्बरोद्भवम् ॥ ४४० ।। चत्वारः स्युर्महादोषा मध्यमाः षट् प्रकीर्तिताः । एवं दश समाख्यातास्तेषां वक्ष्यामि लक्षणम् ।। ४४१ ॥ यत्रैकदेशे संलग्नः शुक्तिखण्डो विभाव्यते । शुक्तिलग्नः समाख्यातः स दोपः कुष्ठकारका ॥ ४४२ ॥ मीनलोचममाशो दृश्यते मौक्तिके तु यः । मत्स्याख्यः स तु दोषः स्यात् पुत्र नाशकरो ध्रुवम् ॥ ४४३ ॥
Aho ! Shrutgyanam