________________
अध्यायः ४]
मानसोल्लासः । शुकः काकपदाकारो दृश्यते यः पवौ स्थितः । स मृत्युमादिशत्याशु धनं वा सकलं हरेत् ॥ ४२१ ॥ भनाग्रं भग्नमध्यं च दलहीनं च वर्तुलम् । कान्तिहीनं च यद् वजं दोषाय न गुणाय तत् ॥ ४२२ ॥ भिमप्रान्तिकरस्वासः सन्त्रासं जनयेत् स्फुटम् । एवं दोषा गुणाः प्रोक्ता वज्राणां सोमभूभुजा ॥ ४२३ ॥
इति वज्रदोष-गुणाः ॥ ... कोलाहि-करि-मत्स्यानां शीर्षे मुक्ताफलोद्भवः । वक्सार-शुक्ति-शङ्गानां गर्भे मुक्ताफलोद्भवः ॥ ४२४ ॥ धारापरेषु जायेत मौक्तिकं जलबिन्दुभिः। दुर्लभं तन्महारत्नं देवैस्तनीयतेऽम्बरात ॥ ४२५ ।। गजादिजं सुदुष्पापं मौक्तिकं तपसा विना । मौक्तिकं शुक्ति कभ्यमाकरेषु कलौ नृभिः ॥ ४२६ ॥ कुक्कुटाण्डसमं वृत्तं मौक्तिक निविडं गुरु । घनजं भानुसाशं देवयोग्यममानुषम् ॥ ४२७ ॥ काम्बोजकुम्भसम्भूतं धात्रीफलसमं निभम् । आताम्रपिअरच्छायं मौक्तिकं मन्ददीधिति ॥ ४२८ ॥ फणिनं वर्तुळे रम्यं नीलच्छायं महाधुति । पुण्यहीना न पश्यन्ति वासुके कुलसम्भवम् ॥ ४२९ ॥ कोलज कोळसाशं तदंष्ट्रासहशच्छवि । अलभ्यं मनुनै रत्नं मौक्तिकं पुण्यवर्जितः ॥ ४३० ॥ गुलाफलसमं स्थौल्यात तिमिजं मौक्तिकं लघु ।
पाटलीपुष्पसदृशं मन्दजाति सुवर्तुलम् ॥ ४३१ ।। १ B °धारं ।
Aho ! Shrutgyanam