________________
मानसोल्लासः ।
[विशतिः२ जयः पराक्रमस्तस्य शत्रुनाशय जायते । गुणवत् क्षत्रजातीयं वजं वसति यद्हे ।। ४१० ॥ कलाकुशलता द्रव्यं प्रज्ञा क्षेम यशो महत् । गुणिनः पविरत्नस्य वैश्यजातेर्विधारणात् ॥ ४११ ॥ परोपकारिता दाक्ष्यं धनधान्यसमृद्धयः । गुणयुक्तस्य वनस्य शूद्रजातेर्विधारणात् ॥ ४१२ ॥ मले मलिनता ख्याता धारणाद् दंष्ट्रिणो भयम् । कोणे व्याधिभयं प्रोक्तं मध्ये वहिभयं भवेत् ॥ ४१३ ॥ दोषेषु विन्दुरावर्तः परिवतों यवाकृतिः।। चतुर्दैवं समाख्याता बिन्दवो वज्रसंश्रयाः ॥ ४१४ ॥ रक्तोऽत्र वर्चुलो बिन्दुरावतः सव्यवर्तनः । रक्तश्व परिवर्तस्तु रक्त एवापसव्यकः ॥ ४१५ ।। बिन्दुरायुर्धनं हन्यादावतों भयमादिशेत् । परिवर्ते भवेद् व्याधिर्यवे तु फळमुच्यते ॥ ४१६ ॥ स च रक्तस्तथा पीत: श्वेतश्च त्रिविधो मतः । रक्तवर्णे यथे ख्यातं गजाश्वस्य विनाशनम् ॥ ४१७ ॥ यवे पीते कुलस्यान्तो धनमायुः सिते भवेत् । एवं दोषा गुणाश्चोक्ता यवचिन्दोरशेषतः ॥ ४१८ ॥ सव्यवका शुभा रेखा वामवक्रा भयङ्करी । छेदभ्रान्तिकरी छेदा रेखा शस्त्रभयप्रदा ॥ ४१९ ॥ पक्षद्वयमश्या या छेदगा सा प्रकीर्तिता । रेखा बन्धुविनाशाय जायते वज्रसंश्रिता ॥ ४२० ।। १ B एवं सव्याप ।
Aho ! Shrutgyanam