________________
मानसोल्लासः।
[विंशतिः २ इन्द्रनीलनिमोत्तुङ्गतरङ्गालिङ्गितं वपुः । बिभ्राणस्यन्दिरामर्तुर्विश्रम्भस्वापसमनः ॥ ३६५ ॥ वज्रपातभयत्रस्तकुलाचलककुस्थितेः । रत्नौघदीप्तिसम्मिश्रफेनस्यातिवितन्वतः ॥ ३६६ ॥ सुधासूतिकलादानात् कृतार्थीकृतशूलिनः । पातालमूलपर्यन्तसम्माप्तजलधारिणः ॥ ३६७ ॥ प्रत्ययविद्रुमलतासन्दिग्धौर्वानलत्विषः । शझैश्च वडवावहिभूतिभ्रान्ति वितन्वतः ॥ ३६८ ॥ उल्लसद्भिर्जलेभाना बन्दैः फेनलवोज्ज्वलैः । आकुलस्य गिरेः शृङ्गमैनाकस्पेन राजतैः ॥ ३६९ ॥ अनन्तत्वान्महत्त्वाच विभ्रतो गगनोपमाम् । उद्दामस्फुरितोतुगतरत्रासकारिणः ॥ ३७० ॥ पक्षच्छेदभयायातभूभृद्रक्षाविधायिनः । उपमां विभ्रतः साक्षात् सोमेश्वरमहीभुजः ॥ ३७१ ॥ ऐरावत-सुधा-लक्ष्मी-शीतदीधितिजन्मनः । शयनस्य हरेस्तुङ्गभङ्गव्याप्तवियदिशः ।। ३७२ ॥ पारिजातं सुधां लक्ष्मी वारुणी शीतदीधितिम् । दत्वा त्रिजगतो भावान् सम्पाप्तस्य वदान्यताम् ॥ ३७३ ॥ बेलापुरेषु सर्वेषु समीपस्थेषु वारिधेः । रक्षा विधेया यत्नेन राज्ञा सम्पदमिच्छता ॥ ३७४ ॥ निजवेलातटस्थानां पोतवाहनकर्मणाम् । पोते प्रत्यागते तस्माद् दशमांश हरेनृपः ॥ ३७५ ॥ प्रतीपमारुतानीतपोतानां स्वेच्छया नृपः । स्वीकुर्यात् सकलं द्रव्यं किश्चिद् दद्याच भूपतिः ॥ ३७६ ॥
इति राष्ट्राध्यायः ॥ ३॥
Aho! Shrutgyanam