________________
अध्यायः ३]
मानसोल्लासः। श्रीधरं च श्रिया युक्तमुमया च महेश्वरम् । ब्रह्माणं च सरस्वत्या सहितं पूजयेद् बुधः ॥ ३५५ ॥ गणेशं च गणैः सार्द्ध तत्स्थानाधिपति तथा। भूतवेतालसहितं क्षेत्रपालं च पूजयेत् ॥ ३५६ ॥ धनेशं यक्षसङ्घातपरिवारसमन्वितम् । जळस्थाने विशेषेण वरुणं च प्रपूजयेत् ॥ ३५७ ॥ त्रिभिर्वा पञ्चभिर्वापि सप्तभिनव भिस्तथा । अधिकैर्विषमैर्वाऽपि साधकैः खननोद्यतैः ॥ ३५८ ॥ उपोषितैः शुचिर्भूतैः शक्तैर्भयविवर्जितैः । खन्यशास्त्रानुसारेण निजाङ्गक्षतरक्षणैः ॥ ३५९ ।। समुद्धरेन्निधिं राजा निजाध्यक्षपुरःसरम् । एवं सिध्यन्ति सर्वाणि निधानानि न संशयः॥ ३६० ॥
धनानामीश्वरो राजा ब्रह्मणा परिकल्पितः । भूगतानां विशेषेण यतोऽसौ विबुधाधिपः ॥ ३६१ ॥
इति निधिः ॥ मौक्तिकानां समुत्पत्तिः स्थाने स्थाने मदोदधौ । तानि स्थानानि संरक्षेदाहरेच्च ततो धनम् ॥ ३६२ ॥ विचित्ररत्नगर्भस्य नानासत्त्वौघसद्मनः । शरदभ्रपतीकाशतरङ्गोल्लासभासिनः ॥ ३६३ ॥ अमरीकृतगीर्वाणनिवहस्य सुधारसैः । वडवाग्निशिखाजालैनिहताहिफणामणेः ॥ ३६४ ॥
१ B खनि।
Aho ! Shrutgyanam