________________
मानसोल्लासः।
[विंशतिः २ कन्जलेनाधयेत् तेन लोचने प्रयतो नरः । करस्थमिव भूमिस्थं निधि पश्यति निश्चितम् ॥ ३४४ ॥ सिताईतूलकस्यापि पद्मसूत्र विवेष्टितम् । सप्तकृत्वो वराहस्य वसया परिभावितम् ॥ ३४५॥ कपिलासपि(?)दीप्तं च कज्जलं जनयेद् यदा । तत्कज्जलाक्तनयनो निधिं पश्येद् भुवि स्थितम् ।। १४६ ॥ हृदयं कृष्णकाकस्य जिह्वां चादाय पेषयेत् । अअयेन्मधुना सार्द्ध नेत्रे पश्येत् ततो निधिम् ।। ३४७ ॥ रात्रौ कृष्णचतुर्दश्यामुलूकवसयोक्षिताम् । पद्मसूत्रकृतां वर्ति कज्जलार्थ प्रदीपयेत् ॥ ३४८ ॥ तेनाअिताक्षियुगलो गृध्रदृष्ट्याऽवलोकयेत् । शर्वर्या वीक्षते बाद निधि भूमितलस्थितम् ॥ ३४९ ॥ कुनी गन्धकं तालं शशकस्य च लेण्डिका । पद्मसूत्रार्कतूलेन वत्तिमेतैः प्रकल्पेयत् ॥ ३५० ॥ कपिलासर्पिषा दीप्ता वतिनिधिसमीपगा। उत्पतेत् मुस्फुटे द्रव्ये निपतेत् सा महानिधौ ॥ ३५१ ॥ अर्क-शाल्मलि-कार्पास-तूलकल्पिततन्तुभिः । पट्ट-पङ्कजसूत्रैश्च वेष्टयेच्छिखिनः शिखाम् ॥ ३५२ ॥ महानिलॅप्रदीप्ता सा निधिस्थाने प्रदर्शिता । त्रिशिखा जायते सद्यो निपतेद् वा निधिस्थले ॥ ३५३ ॥ एवं ज्ञात्वा निधिस्थानं पुष्प-धूपाक्षतैः फलैः ।
यथायोग्यं च बलिभिः पूजयेत् त्रिदिवौकसः ॥ ३५४ ॥ १ B “तूले च । २ B ‘मेकां । ३ B प्रस्फुटे। ४ B पक्व' । ५ B तैल।
Aho ! Shrutgyanam