________________
अध्याप:३].
मानसोबासः। रजतस्य सुवर्णस्य रत्नानां रक्षयेत् खनिम् । तत्सम्भूतेषु सर्वेषु करं राजा समाहरेत् ॥ ३३२ ॥ द्रव्यं भूमिगतं विद्या विविधैर्लक्षणैर्नृपः। लक्षणानि प्रवक्ष्यामि निधीनां प्रतिपत्तये ॥ ३३३ ॥ . वर्षासु शीतकाले च यत्र गोधा निरन्तरम् । वृश्चिका पनगो वाऽऽस्ते तत्र भूमौ भवेनिधिः ॥ ३३४ ॥ दृश्यते खारीटानां सम्भोगो यत्र भूतले । निरिन्धनो ज्वलेद् वहिवं तत्र भवेनिधिः ॥ ३३५ ॥ आवतों दृश्यते यत्र विना हेतुं जलाशये। पङ्कजानि द्विशीर्षाणि तत्र तोये भवेभिधिः ॥ ३३६ ॥ अपरोहस्य वृक्षस्य प्ररोहो यत्र दृश्यते । रम्भा कण्टकिनी यत्र भूमौ तत्र भवेनिधिः ॥ ३३७ ॥ शिखाद्वितयसंयुक्तस्तालो यत्र प्रदृश्यते । पुष्पस्योपरि पुष्पं वा क्षितौ तत्र भवेनिधिः ॥ १३८ ॥ दृष्ट्वाऽक भुवमाघाय वृषभो यत्र नदेति । वारं वारं प्रहृष्टात्मा क्षोण्यां तत्र भवेनिधिः ॥ ३३९ ॥ इस्तद्वयसमुत्सेधो वाष्पो यत्रानिमित्तकः । रूढिर्वा लौकिकी यत्र निधि तत्र खनेपः ॥ ३४० ॥ खनिशास्त्रेषु सर्वेषु लक्षणेन निरूप्यते । तत्रापि लक्ष्यते तज्ज्ञैनिधिविध्युक्तमार्गतः ॥ ३४१ ॥ लक्षणैर्व्यजिते द्रव्ये स्थाननिश्चराहेतवे । अस्ति नास्तीति शङ्काया निवृत्त्य वर्तिरुच्यते ॥ ३४२ ॥ उलूकस्य वसाकोलतैलं कमलतन्तवः । एतैर्विहितया वा कजलं परिकल्पयेत् ॥ ३४३ ॥
Aho ! Shrutgyanam