________________
मानतीबासः। ततोऽशेन संख्दा प्रतोदेन च पीडितः । हिग हिंगेति संभोक्तो धृत्वा कर्मकरं दृढम् ॥ ३२० ॥ मुखं निक्षिप्य भूभागे पोहाबाकुच्य तिष्ठति । हस्तेन वेष्टयेदई कर्मकारस्य कुञ्जरः ॥ ३२१॥ पश्चादू वर्मविनिर्माण प्रतिरूपं निराकृतिः। निक्षिपेदग्रहस्तस्य कुअरस्य वधैषिणः ॥ ३२२ ॥ ततः शुण्डाभिघातेन दन्ताग्रन्यधनेन च । गात्राभ्यामपराभ्यां च मर्दनेन च पेपणैः ॥ ३२३ ॥ चूर्णीकरोति तद्रूपं वधर्मणि शिक्षितः । ततोऽसौ मारयेज्जन्तून् कृतान्त इव शिक्षितः ॥ ३२४ ॥ चतुरस्र कर्मलप्तं वालुकापूरितं मनाक् । दण्डाप्रसंस्थित कार्य तल्लाक्षेत्यभिधीयते ॥ ३२५ ॥ दण्डाने दर्शयेल्लसं कम्पयेच सशब्दकम् । निषादिपेरितो नागो रदनाभ्यां निहन्ति तम् ॥ १२६ ॥ समुमतैस्तथा नीचैर्धनैः पार्थसमाश्रितैः । विविधैः पहरेल्लाला दन्तघातेषु शिक्षितः ॥ ३२७ ॥ उन्मोच्य बन्धनं पश्चात् पूर्वस्थानकमाश्रितम् । सञ्चारयेत् ततो वीभ्यामष्ठाभ्यां नुदन् गजम् ॥ ३२८ ॥ कवलं दर्शयित्वा तु धावयेदनु धावतः । पार्धाभ्यां वर्तनः पश्चान्मण्डलेषु प्रचारयेत् ।। ३२९ ॥ एवं संशिक्षितो नागो वध्यावध्येषु कर्मसु । जयत्येकोऽपि सङ्कामे नर-चाजि-गजान् बहून् ॥ ३३० ॥ शुभलक्षणसंयुक्ताः कुअरा भद्रजातयः । शिक्षिताः सर्वकर्माणि बले कार्या महीभुना ॥ ३३१॥
इति गमशिक्षानिरूपणम् ॥
Aho ! Shrutgyanam