________________
अय: ]
8
मानसोल्लासः ।
आस्फालय भस्त्रिके पूर्व दर्शयेदेकभस्त्रिकाम् । हूहूकारैर्द्विपं यन्ता भस्त्रिका हनने नुदेत् ॥ ३०८ ॥ करं कुण्डलिनं नागः प्रसार्य धृतभस्त्रिकाम् । महरेद् बाह्यहस्तेन प्रेरितः सनिषादिना ॥ ३०९ ॥
हस्तमुत्क्षिप्य नागेन्द्रं यन्ता वाक्यैः सुशिक्षितैः । अन्तःकरेण भस्त्रायां ताडनं कारयेद् दृढम् ॥ ३१० ॥ पार्श्वद्वयसमायुक्तौ ततः कर्मकरावुभौ । भस्त्रिका पाणिक नागमात्मानं प्रति कर्षतः || ३२१ ॥
बाह्यहस्तेन तत्रैकां भस्त्रिकां ताडयेद् गजः । अन्तर्हस्तेन वाप्यन्यां प्रहरेत पुनः पुनः ॥ ३९२ ॥
क्रमेणानेन तिष्ठन्ति भस्त्रिकापाणयस्त्रयः । चत्वारः पञ्च वा दक्षा दर्शयन्तः स्वभस्त्रिकाः || ३१३ ॥
अन्तर्हस्तेन तत्रैकां बाह्यहस्तेन चापराम् । प्रहारयेत् तमारूढो भस्त्रिकास्ता यथाक्रमम् || ३१४ ॥
ततः प्रहरणे दक्षो भवेन्मातङ्गकुञ्जरः । पश्चात् प्रहरतेऽङ्गानि नरोष्ट्र - गज- वाजिनाम् || ३१५ ॥
ततोऽङ्गधारणैः शिक्ष्यस्तज्ज्ञैः कर्मकरैः करी । घासं चेष्टं गुडं शालिमिक्षुकाण्डमथापि वा ।। ३१६ ॥
दर्शयित्वा प्रलोभ्यैनं प्रसारितकरं गजम् । विवेष्टयेन्निनं गात्रं घासलोभं प्रदर्शयेत् ।। ३१७ ||
करेण वेष्टितो गाढं दद्याद् ग्रासं कर स्थितम् । आस्फाल्य च करं तस्य स्वयमुद्धृत्य गच्छति ।। ३१८ ॥
धारणे विगताशङ्कं धारयेल्लोचनैर्विना ।
स्वाङ्गं च विधृतं यत्नाद् वञ्चयेत् परिवर्तनैः ।। ३१९ ॥
Aho! Shrutgyanam
५७