________________
मानसोल्लासः।
[विंशतिः२ कवलासने द्विर्यािवद् ग्रासो निगीर्यते । परित्यागे प्रयोक्तव्या चुरु चुदेति भारती ॥ २९७ ।। मा मा निवारणे वाच्यो गजशिक्षाविशारदैः। हिंग हिगेति वक्तव्यो भूमौ दन्तामिघातने ॥ २९८ ॥ बहिः शुण्डाभिघाते तु हू हू वाक्यं प्रबोधयेत् । शनैः सञ्चारणे वाच्यो लेच लेचेति कोविदैः ।। २९९ ॥ आह्वाने कुञ्जरो ज्ञाप्य इच्च भूभेति यन्त्रिभिः । कस्यापि ग्रहणे वाच्यो घे घे शब्दं मतङ्गजः ॥ ३०० ॥ ईदृशी प्रथमा भाषा शिक्षयेत मतङ्कजम् । भाषाभिषं गजं जातं पश्चात्कर्मणि योजयेत् ॥ ३०१ ॥ पुरःस्थितेन शुण्डाया नारदो(आरतो)दः शनैः शनैः । कर्तव्यस्तद्भयानागः करं सङ्कोच्य तिष्ठति ॥ ३०२ ॥ आराभ्यां मुखपार्श्वस्थौ तुदतो हनुयुग्मकम् । उन्नमयय मुखं नागस्तद्भयादवतिष्ठते ।। ३०३ ॥ ततः कर्णसमीपस्थः कर्णमूले प्रतोदनम् । कुरुतस्तद्भयाद् दन्ती कर्णावुद्धृत्य तिष्ठति ॥ ३०४ ॥ आराघातभयत्रस्तो यदि पश्चाद् व्रजेद् गजः । आराभ्यां तोदनं तस्य कुर्वाते पार्श्वसंस्थितौ ॥ ३०॥ ततः स्थानकसंसिद्धः सौष्ठवं लभते गजः । शिक्षयेत ततो नागं यन्त्रितं सर्वकर्मसु ॥ ३०६ ।। ततः कर्मकरो दक्षः पाणिभ्यां धृतभस्त्रिकः । स्थानके तिष्ठतस्तस्य प्रविश्य करिणोऽग्रतः ॥ ३०७ ॥
-
१ A गिह गिहेति.
Aho ! Shrutgyanam