________________
अध्यायः ]
मानसोल्लासः। दधि दूर्वाक्षतैः पुष्पैश्चन्दनैः कुङ्कमादिभिः । अर्चयेत् सिन्धुरं राजा सम्यग् दिनचतुष्टयम् ॥ २८५ ॥ ततश्चासौ स्मरेज्जन्म सामजन्मा मतङ्गजः । अभिनन्दन गृहावासं त्यजन् कान्तारजं सुखम् ॥ २८६ ॥ उत्तमेऽहनि नागानामपराणि प्रबन्धयेत् । निगडैश्चर्मनिर्माणदृढं गाढं यथासुखम् ॥ २८७ ।। पुरोभागे त्रयं स्थाप्यं कर्णदेशे नरावुभौ। पश्चाब्रागे तथा द्वौ च सप्ताराधारिणः क्रमात् ॥ २८८ ॥ पक्षयोरुभयोः स्थाप्ये करिण्यावतिशिक्षिते ।
आराहस्तैस्ततः सर्वैनियम्योऽसौ मतकनः ॥ २८९ ॥ शिक्षयेच ततो भाषां कर्मज्ञानाय दन्तिनम् । अनालस्येन निर्बन्धात प्रत्यहं गजपोषकः ॥ २९० ।। एबेहोति च सञ्चाले स्थितावप्यपसारणे । हेडे हेडेति वक्तव्यं गजशिक्षाविशारदैः ॥ २९१ ॥ पार्षद्वयापसार च फापेति विनियोजयेत् । उपवेशे प्रयोक्तव्यं विश्वीति वचनं स्फुटम् ॥ २९२ ॥ नुहरुत्थापने वाच्यं गजशिक्षाविशारदः। दिवाच्यं करसङ्कोचे वप(प्) डिहरेति शिक्षकैः ॥ २९३ ॥ भरीहेति प्रयोज्यं हि करस्योत्क्षेपणं प्रति । स्तम्भादिलगने वाच्यं हिज्ज-हिज्जेति शिक्षकैः ।। २९४ ॥ गात्रस्योत्क्षेपणे वाच्यं भले भलेति यन्त्रिभिः । अपरानमने किः किर्भणनीय विचक्षणैः ॥ २९५ ॥ याचनार्थ महामात्रो दे दे शब्दमुदीरयेत् । करमहारणे शिक्ष्यो हेहैयेति द्विरुक्तितः ॥ २९६ ॥
Aho ! Shrutgyanam