________________
अध्यायः १ ]
मानसोल्लासः ।
धातुवादप्रयोगैश्च विविधैर्वर्धयेद् धनम् ।
ताम्रेण साधयेत् स्वर्ण रौप्यं वङ्गेन साधयेत् ॥ ३७७ ॥
शुष्कपुष्पपलाशस्य पुष्पं संशोष्य चूर्णयेत् । छागदुग्धेन तच्चूर्ण जीन् वारान् परिभावयेत् ॥ ३७८ ॥
वषष्ठांशचूर्णेन पिष्ठेनैतत् प्रलेपयेत् । पुटपाकेन तद् दग्धं तारं भवति शोभनम् ॥ ३७९ ॥
श्वेतमतः पुष्पं स्वरसेन विभावयेत् । तालं द्वात्रिंशतं वारान् तेन वङ्गं प्रलेपयेत् ॥ ३८० ॥
पुटपाकेन तद् दग्धं वज्रं व्रजति तारताम् । मार्दवं कालिमां गन्धं वज्रं त्यजति निश्चितम् ॥ ३८१ ॥
श्वेतब्रह्मत बजतैलेन परिभावयेत् । गन्धकं सप्तकृत्वोऽथ तेन ताम्रदलानि च ।। ३८२ ॥
लेपितं तत्पुढे दग्धं शुल् काञ्चनतां व्रजेत् । दाहच्छेदनिघर्षादिकर्मयोग्यं भवेत् ततः ॥ ३८३ ॥
तस्य तैलेन दरदं गन्धकं पारदं तथा ।
मर्दयेत् स्वल्पपाषाणे यावत् तत् कल्कतां व्रजेत् ॥ ३८४ ॥
लेपयेत् तेन कल्केन वङ्गपत्राणि सर्वतः ।
दग्ध्वा दग्ध्वा पुनर्लिम्पेद् वारान् द्वात्रिंशतं बुधः ॥ ३८५ ॥
ततो वज्रं भवेत् स्वर्ण रञ्जितं दरदादिभिः । व्यवहारक्षमं शुद्धं कर्मयोग्यं भवेच्च तत् ।। २८६ ।।
निर्यासं शाकवृक्षस्य श्लक्ष्णवस्त्रेण गाळयेत् । समूलशिग्रुचूर्णेन निर्याससहितेन च ॥ ३८७ ॥
परितस्ताम्रपत्राणि दग्ध्वा दग्ध्वा विलेपयेत् । दाहैः पञ्चभिरेतत् तु कावानं जायते शुभम् || ३८८ ॥
કર
Aho! Shrutgyanam