________________
५०
मानसोल्लासः ।
बृंहितं मेघगम्भीरं लोहितं पुष्करं वरम् । अङ्गुली वर्तुळा दीर्घा गौरश्यामा तनो | छविः ॥ २२८ ॥
शुभं लक्षणमेतत् स्याद् गजानां जयकारिणाम् । तस्माल्लक्षणसंयुक्ता गजा ग्राह्या महीभुजा ।। २२९ ।।
इति गजशुभलक्षणम् ॥
अतो यदन्यत तत् सर्वे विरूपं विकृतं च यत् । न्यूनाधिकं तु यद्रूपं तत्सर्वमशुभं विदुः ॥ २३० ॥
[विंशतिः २
हीनलक्षणसंयुक्ता गजास्त्याज्या महीभुजा । दुर्भिक्षशोकभयदा लोचनोद्वेगकारिणः ॥ २३१ ॥
गति - चेष्टा-स्वरान् यस्य सत्त्वस्यानुकरोति यत् । अनूकमिति तद् ज्ञेयं गजचेष्टितकोविदैः ॥ २३२ ॥
शुभानां प्राणिनां चेष्टां शुभानूकं वरं हि तत् । निन्दितानां तथा चेष्टामनूकं निन्दितं विदुः ॥ २३३ ॥
सुव्यक्ता विन्दवो यस्य गौरो वर्णो मनोहरः । लोहितौ नेत्रयोः प्रान्तौ स्निन्धौ च बलिनौ रदौ ॥ २३४ ॥
एवं लक्षणसम्पूर्णो गजो ब्रह्मांशको मतः । पूजाऽसौ नरेन्द्राणां विजयारोग्यवर्धनः ।। २३५ ॥
कक्षाभागे तथा कण्ठे यः समः पृथुलासनः । मुखे कोकनदच्छायो युग्मरोमविराजितः || २३६ ॥
बहुकालमदः शूरो मेघनादेन हृष्यति । प्रजापत्यंशको नागः प्रजावृद्धिकरो ह्यसौ ॥ २३७ ॥
बिन्दवो वलिरेखा वा दृश्यन्ते यस्य वर्ष्मणि । स्वस्तिकैर्वर्धमानाब्जैर्नन्द्यावर्तैश्च सन्निभाः ॥ २३८ ॥
Aho ! Shrutgyanam