________________
अध्याय ः ३ ]
मानसोल्लासः ।
रक्तोत्पलसमे नेत्रे स स्यादिन्द्रांशको गजः । समरे विजयं दद्यात् परभूपालसम्पदः ।। २३९ ॥
ताम्रावोष्ठौ तथा जिह्वा धात्रीफलसमद्युतिः । नयने रदनौ यस्य कुसुमोदकसन्निभम् (भौ) ॥ २४० ॥
धनदांशसमुद्भूतो धनरत्नसमृद्धिकृत् । नृपाणां भवने तिष्ठन् पूजितः कुअरोत्तमः || २४१ ||
कृष्णमेघनिभो वर्णे स्त्यान सर्पिः सदग्रहः । आसने सुभगो मूर्ध्नि गम्भीरघनगर्जितः || २४२ ॥
स्रवति प्रचुरं दानं वरुगांशकसम्भवः । आवे रिपुसंहारी निजभर्तुर्जयप्रदः ॥ २४३ ॥ त्रिलीमण्डितः कण्ठे क्षौद्रपिङ्गविलोचनः । केतकच्छायदशनः पृथुरक्ताग्रपल्लवः || २४४ ||
बिन्दुमान् पाण्डुवर्णश्च शशाङ्कांशकसम्भवः । सङ्गराङ्गणे राज्ञां गजोऽयं विजयप्रदः ॥ २४५ ॥ अग्निज्वालासहग्रोमा केशवालेषु पिङ्गलः । पिङ्गाक्षः पिङ्गतालुच पिङ्गपुष्करशोभितः || २४६ ||
अग्न्यंशसमुद्भूतः साक्षाद् वह्निरिवाहवे । भस्मसात्कुरुते सैन्यमशेषं द्विषतां सदा ॥ २४७ ॥
कृष्णा यस्य तनो छाया गौरी चाक्ष्णोश्च कर्णयोः । नखा दीपशिखाभासा निविडा मांसला तनुः ॥ २४८ ॥ अग्निमारुतयोरंशसंजातः कोपनो जवी । तस्य दोषोऽयमेकः स्यादङ्कुशं यन्न मन्यते ॥ २४९ ॥ दोषाभासो गुणस्तस्य सञ्जाते समरोत्सवे । प्रचण्डत्वाद् भयं धत्ते रिपुसैन्येष्वयं गजः ॥ २५० ॥
Aho! Shrutgyanam