________________
अध्यायः ३]
मानसोल्लासः । चतुर्हस्तमितं खातं विस्तरेण करट्यम् । पञ्चबाहुप्रमाणेन दीर्घ कुर्वीत बुद्धिमान् ॥ २१७ ॥ गोपनीयं प्रयत्नेन यष्टिभिस्तृणपल्लौः । यस्तत्र निपतेन्नागो विघ्नो ह्यस्यापि सम्भवेत् ।। २१८ ॥ खो वा जायते पादेवक्षो वाऽस्य प्रभज्यते । दन्तैर्वियुज्यते वापि कोऽपि जीवति वा न वा ॥ २१९ ।।
बन्धोऽयमवपाताख्यस्तेनात्यर्थं विगर्हितः । यस्मानागाः प्रणश्यन्ति तेनैवं वर्जयेद् बुधः ॥ २२० ॥
|| इत्यवपातबन्धः ॥
प्रबध्य कुअरान् राजा तेषां लक्षणमुत्तमम् । अनकमंशकं सत्वं कुलं सम्यग् विचारयेत् ॥ २२१ ॥ सप्तारत्निसमुत्सेधो नवारन्यायतश्च यः । दशारत्निपरीणाहः स गजो मानतः शुभः ॥ २२२ ॥ अरनिमात्रेणाधिक्यादरालः परिकीर्तितः । अत्यरालो द्वयाधिक्यान्निन्द्यौ मानाधिकाविमौ ।। २२३ ॥ अरनिमाने हीनो यः स मध्यो मानतो गजः । अरनिद्वयहीनस्तु कनिष्ठः परिकीर्तितः ॥ २२४ ॥ कनिष्ठादपि यो हीनो वामनः स निगद्यते । वामनादपि यो हीनः कुब्जौ निन्छौ गजाविमौ ॥ २२५ ॥ सुस्निग्धौ रदनौ वृत्तौ दक्षिणश्च समुन्नतः । अकृष्टं तालु तानं च दशाष्टौ नखराः शुभाः । २२६ ॥ अपाण्डु मेहनं शस्तं वालयुक्तश्च वालधिः । अच्छिद्रौ विस्तृतो कर्णौ मधुपिङ्गविलोचने ॥ २२७ ॥
Aho ! Shrutgyanam