________________
अध्याय ३]
मानसोल्लासः। त्रिपुर्याः कोसलादौ च वेदिकारूपकं धनम् । श्रीक्षेत्रं गौरवकालमागिरेयं वनं स्मृतम् ॥ १७३ ॥ विन्ध्यादिचित्रकूटाद्रिकलिङ्गद्रविडाश्रितम् । वनं कालिङ्गकं नाम समुद्रावधि कीर्त्यते ॥ १७४ ।। श्रीशैले दशैले च मलयाद्रौ तथैव च । पनं दाशार्णकं नाम करिणां जन्मकारणम् ॥ १७५ ॥ सह्याद्रिभृगुकच्छान्तमपरान्तवनं स्मृतम् । द्वारवत्यामनन्त्यां च सौराष्ट्रवनमुच्यते ।। १७६ ॥ कालसरे कुरुक्षेत्रे सिन्धुसागरसङ्गमे । वनं पाचनदं प्रोक्तं हिमालयकृतावधि ॥ १७७ ।।
कालिकं वेदिकारूपं दाशार्ण च वनं वरम । आरिरेयं तथा प्राच्यं मध्यमं वनमिष्यते ॥ १७८ ॥
अपरान्सं पाचनदं सौराष्ट्रं चाधर्म वनम् । एवमष्ट बनान्याहुगेजानां जन्मनः पदम् ॥ १८९ ॥
इति गजवनविभागलक्षणम् ॥ घन्ति ये करिणः पापा घातयेत् तान् महीपतिः । दैवान्मृतेषु नागेषु तेषां दन्तान् समाहरेत् ॥ १८० ॥ फरिणो मूत्र-शकृतां लिसा.रटवीचरैः। अरुष्करदलच्छन्नै नीयादिभयूथकम् ॥ १८१॥ पदमचारैलेण्डैश्च तदाघातैर्हतद्रुमैः । बुध्येत शयनस्थानैर्गजांस्तद्वंहितैरपि ॥ १८२ ॥
१ A यत्नतो।
Aho ! Shrutgyanam