________________
४४
मानमोलासः।
(विशतिः २ पञ्चाशत्तम आदेयो भागः पशु-हिरण्ययोः। अष्टमो द्वादशो वाऽपि पष्ठो वा घान्यतो नृपैः ॥ १३ ॥ फलक्षेत्रानुरूपेण गृहीयात् तत्करं नृपः। स्वीकुर्यादथ षड्भागं पण्ययोर्मधुसर्पिषोः ॥ १६४ ॥ रस-गन्धौषधीनां च मूल-पुष्प-फलस्य च । तृणानां शाकपत्राणां कर्मणां चर्मणामपि ॥ १६५ ॥ मृत्तिकाकृतभाण्डाना भाण्डस्याश्मभवस्य च । आपत्स्थितोऽप्याददीत श्रोत्रियान करं नृपः ॥ १६ ॥
इति करादानविवेकः ॥ भूपदेशमकृष्टं तु गवां चाराय कल्पयेत् । देवोधानं सुप्रतिष्ठं मुनिभ्यो वितरेन्नृपः ॥ १६७ ॥ मृगसङ्घातसम्पन्न करसत्त्वैर्विवर्जितम् । वनमात्मविहारार्थ पालयेत् पुरपार्श्वगम् ॥ १६८ ॥ प्रत्यन्तदेशसम्भूतं वनं गिरिदरीयुतम् । सर्वेषां गृहकृत्यर्थ पार्थिवः प्रतिपादयेत् ॥ १६९ ॥ फलैमूलस्तृणैः का? शाकैस्तत्रोत्थितैनराः । जीवन्ति ये ततो ग्राह्यो दशमोऽशो महीभुजा ॥ १७० ॥ द्विपिजन्मवन श्रेष्ठं वर्तमानगजं च यत् । अवीवर्तिभिर्लोक रक्षणीयं क्षमाभुजा ॥ १७१ ॥
इति देशजनरक्षा ॥
गङ्गासागरहेमाद्रिप्रयागाणां च मध्यतः । धनं माच्यमिति मोक्तं लोहिताधिश्च पश्चिमे ॥ १७२ ॥
Aho ! Shrutgyanam