________________
13
अध्याय ३]
मानसोल्लामः । सर्वसस्यवती सेव्या खनिद्रविणगर्मिणी । पशव्या बहुपानीया पुण्यवद्भिर्जनैर्युता ॥ १५२ ।। स्तम्बरमवनोपेता बड्याना सुशोभना । भूर्नदीमातका शस्ता सर्वदा धरणीभुजाम् ॥ १५ ॥ ईग्भूमियुतं राष्ट्र महापत्तनमासि]तम् । पालनाद् वयेद् राजा स्वकोशस्याभिवृद्धये ॥ १५४ ॥ स्वराष्ट्र पालयेद् राजा प्रजाः पुत्रानिवौरसान । चौरेभ्योऽमात्यकेभ्यश्च तथैवार्याधिकारितः ॥ १५५ ॥ चौरः साहसिकबाटैर्दुराचारैस्तथा परैः। विशेषेण च कायस्थैः पीडिताः पालयेत् प्रजाः ॥ १५६ ॥ स्वराष्ट्र यो नृपो मोहात् पीडयेदनवेक्षया । राज्यात् स च्यवते शीघ्रं प्राणेभ्यः सह पन्धुभिः ।। १५७ ॥ ययेव प्राणिनां प्राणा हीयन्ते देहपीडनात् । तथैव भूभुजा प्राणा हीयन्ते देशपीटनात् ॥ १५८ ॥ एकयामप्रभु कुर्याद् दशग्रामप्रभु तथा। प्रामाणां विंशः कुर्यात् प्रभुं शत-सहस्रयोः ॥ १५९ ॥ ग्रामे दोषं समुत्पन्नमशक्तश्शासितुं यदि । दशग्रामेशिनं शंसेद् दशेशो विंशतीश्वरे ॥ १६० ॥ विशतीशः शतेशाय तत् सर्व विनिवेदयेत् । घूयाद् ग्रामशतस्वामी सहस्रस्वामिनेऽखिलम् ॥ १६१॥ उत्पमारतु तथा दोषान् ग्रामादाशु निवेदितान् । हात्वा तत्र स्थिताः सर्वे कुर्युस्तेषां प्रतिक्रियाम् ॥ १६२ ॥
इति राष्ट्रपाटनविवेकः ॥
Aho ! Shrutgyanam