________________
४२
मानसोल्लासः।
[विशतिः २ घमौ विरेचने नस्ये बस्तौ शस्त्रक्रियास्वपि । शस्यन्ते भिषजः सम्यक् निष्णाताः पञ्चकर्मसु ॥ १४२ ॥ यत् किश्चिदौषधैः साध्यं शरीरेषु हिताहितम् । सम्यग विदन्ति ये वैद्या नृपयोग्या भवन्ति ते ॥ १४३ ॥ कुच्छ्रसाध्यमसाध्यं वा साध्यं जानन्ति तत्वतः । देशं कालं वयोऽवस्था प्रकृतिसात्म्यमेव च ।। १४४॥ असाध्याः परकीयाणामात्मस्वामिहिते रताः । धर्मज्ञा चित्ताच वैद्याः कार्या महीभुजा ॥ १४५ ॥
इति वैद्यलक्षणम् । विरूपो लोभहीनश्च सावधानो जितेन्द्रियः । इशिताकारकुशलः शुद्धान्ताध्यक्ष इष्यते ॥ १४६ ॥ मुप्तकामोपमाः शुद्धाः पुरुषाः कृतबुद्धयः । अन्तःपुरेक्षकाः कार्या नृपेण शुचियोनयः ॥ १४७ ।। धर्मज्ञाः शुचयो धीराः प्रभुभक्ता जितेन्द्रिया। कार्या राज्ञा कुमाराणामध्यक्षाः स्युः परीक्षिताः ॥ १४८ ॥ कर्मस्वन्येषु सर्वेषु दक्षाश्च शुचयस्तथा । शूराश्च बुद्धिमन्तश्च शस्त्र-शास्त्रकलाविदः ।। १४९ ॥ योग-क्षेममुखार्थाय दुष्टसंयमनाय च । आत्मनश्च विनोदाय राज्ञा योज्या पथाईतः ॥ १५० ॥ इत्यन्तःपुररक्षक कुमारपरिचारकलक्षणम् ॥
इत्यमात्याध्यायः ॥ ३॥ बर्द्धते भृगुणैर्देशो देशवृद्धिर्नपर्द्धये ।
भूमी गुणवती तस्मादावसेद् भूतये नृपः ॥ १५१ ॥ १ B सप्तकामोपधाः ।
Aho ! Shrutgyanam