________________
जन्याय..]
आयुर्वेदविदधानां निमित्त-शकुनादिविस् । शिक्षावेदी तुरगाणां भूमिभागविशारदः ॥ १३२ ।। बलावलरयाभिज्ञः पियवाक् प्रियदर्शनः । कृतविद्यश्च शूरश्च सारथी पार्थिवोचितः ॥ १३३ ॥
इति सारथिलक्षणम् ॥
असम्भेद्यः शुचिर्दक्षः कृतानस्य परीक्षकः । सूदानां च विशेषज्ञः सूदाध्यक्षो विधीयते ।। १३४ ॥ कुलक्रमसमायातास्तुष्टेष्टाश्चानुकारिणः । कृत्तकेशनखा दान्ताः पराभेद्या नृपे रताः ॥ १३५ ।। अम-पानविशेषज्ञा मांसपाकविशारदाः । शाफ-पाककलादक्षाः पकानकरणे बुधाः ॥ १३६ ॥ पानव्यानतत्त्वज्ञाः खण्डपाकस्य वेदिनः। क्षीरप्रकारचोद्धार: सूदा कार्या महीभुना ॥ १३७॥
इति सूदरक्षणम् ॥
नराणां च गजानां च वाजिनां च गवामपि । मृगाणां च खगानां च ये जानन्ति चिकित्सितम् ॥ १८ ॥ परं पारङ्गताः सम्यगष्टाङ्गे तु चिकित्सिते । शस्त्रकर्मकलादक्षा मन्त्रे तन्त्रे च कोविदाः ॥ १३९ ॥ देहे शिरसि वाले तु विषे शल्ये ग्रहेऽपि च । दृषे रसायने चैव कुशला भिषनोऽयम् ॥ १४० ॥
रोगनामनिदानं तु रुजं जानन्ति तत्त्वतः । औषधं रूप-नामभ्यां जानन्तो भिषनो वराः ॥ १४१ ।।
Aho ! Shrutgyanam