________________
४०
मानसोल्लासः ।
छेदेनांश विपर्यासाद् गुणयेद् राशियुग्मके । भाजकेन भजे भाज्यं भिन्नभागोऽयमीदृशः ॥ ११३ ॥ इति गणितम् ॥
[विंशतिः २
ईदृशं गुणकारं च भागहारं च तवतः । त्रैराशिकविधानं च यो जानाति विनिश्चितम् ॥ १२४ ॥
अलुब्धः सावधानश्च रागद्वेषविवर्जितः । स राता गणकः कार्यः कोशे राष्ट्रे च धीमता ॥ १२५ ॥
इति कोशाध्यक्षगण कलक्षणम् ॥
उन्नतो रूपवान् दक्षः प्रियवाग् दर्पवर्जितः । ग्राही चिचस्य सर्वेषां प्रतीहारः प्रशस्यते ॥ १२६ ॥ इति प्रतीहारलक्षणम् ॥
प्रगल्भो मतिमान् दक्षः सर्वभाषाविशारदः । सन्धि विग्रहतत्त्वज्ञो लिपिज्ञोऽक्षरवाचकः ॥ १२७ ॥
सामन्तमण्डलेशानां मान्यकानां विशेषतः । आवाहने विसर्गे च स्थापने निपुणो भृशम् ॥ १२८ ॥
पाड्गुण्यविधितत्त्वज्ञो देश-काळ-विभागवित् । आप-व्ययौ च लोकं च देशोत्पत्ति च वेत्ति यः ॥ १२९ ॥
अर्यरक्षापरो भृत्यः कृत्याकृत्य विवेकवित् । सान्धिविग्रहिकः कार्यों राज्ञा कार्यविशारदः ॥ १३० ॥
इति सन्धिविग्रहिकलक्षणम् ॥
सर्वदेश लिपिज्ञाता लेखने कुशलः पटुः । अधीतो वाचको धीमान् योज्यो राज्ञा स लेखकः ॥ १३१ ॥
इति लेखकलक्षणम् ॥
Aho! Shrutgyanam