________________
मध्याव.]
मानसाहासः। अनेन क्रमयोगेण भजनीयं विभाजयेत् । एकत्र स्थापयेल्लब्धमवशिष्टं तथाऽन्यतः ॥ १११ ॥ अवशिष्टं पुनर्भकृत्वा यथाभागानुसारतः । लब्धे तु मेलयेत् तत् तु भागहारोऽयमीशः ॥ ११२॥ प्रमाणं फलमिच्छति राशित्रितयमुच्यते । इच्छया गुणितं वस्तु प्रमाणेन विभाजयेत् ॥ ११३ ॥ प्रमाणं द्रव्यमाख्यातं फलं द्रविणमिष्यते । द्रव्यजातिविभागोत्थामिच्छामिच्छन्ति मूरयः ॥ ११४ ॥ त्रैराशिकमिदं प्रोक्तं गणितं गणकोविदैः। पश्चराशिकमत्रैव सप्तराशिकमेव च ॥ ११५ ॥ नवराशिकमप्यस्मिन ज्ञेयं त्रैराशिके विधौ । सकलं गणितं प्रोक्तं सक्षेपेण प्रसन्नतः ॥ ११६ ॥ वक्ष्यामि गणितं भिन्नमुद्देशे खण्डितं हि यत् । रूपमंशस्तथा च्छेदो नामैतद् व्यावहारिकम् ।। ११७ ।। रूपमूर्ध्वमपश्चाशस्तस्याधः छेद इष्यते । राशिदर्य प्रकर्तव्यं गुण्यं गुणकमेव च ॥ ११८ ॥ संपूर्ण कथ्यते रूपमंश उद्धरितो भवेत् । तस्यांशस्य विभागो यः स च्छेदः परिकीर्तितः ॥ ११९ ॥ गुणयेदंशमशेन च्छेदं छेदेन बुद्धिमान् । फलांशं विभजेत् तज्ज्ञः फलेन च्छेदजन्मना ॥ १२० ॥ गुणनं भिन्नमाख्यातं भिन्नभागोऽभिधीयते । रूपांशच्छेदमार्गेण भाज्यो राशिविधीयते ॥ १२१ ॥ भाजक तथा चान्यो राशिर्लेख्यो विपश्चिता। छेदेन गुणयेद् रूपं लब्धमंशेन मेलयेत् ॥ १२२ ॥
Aho ! Shrutgyanam