________________
मानसोल्लासः।
[विंशतिः२ बिन्दवः पञ्च लक्षे स्युः प्रयुते बिन्दवस्तु पट । बिन्दवः सम कोटौ स्पुरचुदे चाष्ट विन्दवः ॥ ९९ ॥ बिन्दवो नव पझे स्युः खेदं स्युर्दश बिन्दवः । एकादश निखरे तु द्वादश स्युमेहाम्बुजे ॥ १०० ॥ शक्ने त्रयोदश प्रोक्ताः समुद्रे मनुविन्दवः । अन्त्यसंझे समाख्याता बिन्दवस्तिथिसंजया ॥१०१ ॥ द्विरष्ट बिन्दवो मध्ये परार्धे दश सप्त च । एवमष्टादशस्थानं गणितं व्यावहारिकम् ॥ १०२ ॥ एकाङ्के बिन्दुरेकश्चेद् दशकं तत् प्रकीर्तितम् । द्वितीयाङ्के पुरो चिन्दौ सङ्ख्या विंशतिरिष्यते ॥ १०३ ॥ एवं तृतीयायङ्केषु बिन्दुः स्यात् पुरतो यदि । त्रिंशदाद्या तदा सङ्ख्या नवत्यन्ता प्रकीर्तिता ॥ १०४ ॥ शताधिके परार्धान्ते यावन्तो बिन्दवः स्थिताः । यस्याङ्कस्य पुरोभागे तावत्सङ्ख्या तु सा भवेत् ॥ १०५॥ अङ्काः कतिपये स्थाप्या गुणनीयतया स्थिताः । अधस्तात् प्रथमाङ्कस्य गुणकाभ्याङ्कमालिखेत् ॥ १०६ ॥ एकैकं गुणयेत् सर्वपरिस्थमधस्तनैः । लब्धं निवेशयेत् तत्र स्वास्योपरि लेखयेत् ॥ १०७॥ एकादिगुणने योज्या बुधैरता विपर्ययात । लब्धं तु दशकस्थानं पूर्वेणाङ्केन योजयेत् ॥ १०८ ॥ गुणाकारक्रमेणादावशान् कतिपयान न्यसेत् । विभाजकानधस्तेषां सुसमं विन्यसेद् बुधः ॥ १०९ ॥ अधोऽङ्क हृदये कृत्वा तर्कयेदमूर्ध्वगम् । विभागो लभ्यते येन तेन भागं प्रकल्पयेत् ॥ ११० ॥
Aho ! Shrutgyanam