________________
३२
मानतोलासः।
[विंशतिः । रोहिण्यां श्रवणे पुष्ये रेवत्पांचा समुद्धरेत् । पञ्चाङ्गानि समाहृत्य छायायां परिशोषयेत् ।। ३३ ।। सर्पिषा मधुना साई बिडालपदमात्रकम् । तञ्चूर्णमुपयुमीत क्षीरषष्टिकभोजनः ॥ ३४॥ एकविंशे दिने याते दिव्यदेहो भवेबरः। मासत्रयप्रयोगेण पुमान् प्रामोत्यदृश्यताम् ॥ ३५ ॥ पञ्चमासप्रयोगेण मोदते विबुधैः सह । मासपट्कमयोगेण चिरायुः खेचरो भवेत् ॥ १६ ॥ वेतस्य ब्रह्मवृक्षस्य पत्रं पुष्पं फलं हरेत् । शोषयित्वा तु तच्चूर्ण भक्षयेन्मधुसर्पिषा ॥ ३७॥ सप्तरात्रप्रयोगेण बलीपलितवर्जितः । दयष्टवर्षाकतिर्मयों जीवेदग्दशतत्रयम् ॥ ३८ ॥ अमरौं पुष्यनक्षत्रे समूलां पल्लवान्विताम् । बोषयित्वा तु तच्चूर्ण शुद्धकायप्रयत्नवान् ॥ ३९ ॥ सर्पिषा मधुना साई भक्षयेत् कर्षमात्रकम् । गव्यक्षीरसमायुक्तं कुर्याउछाल्यत्रभोजनम् ॥ ४० ॥ स्वराः सर्वे विनश्यन्ति मुखरोगो जलग्रहः । पाः-श्रोत्रभवो रोगः. सर्वशूलं प्रशाम्यति ॥ ४१ ॥ कतिः किटभो दाहः कुष्ठं लूता भगन्दरः । प्रमेहो जठरो गुल्मः क्षयोऽपस्मार एव च ॥ १२ ॥ सप्ताहे प्रथमे याते नश्यन्त्येता रुजः स्फुटम् । पासे दितीयसमाहे दिव्यदेहो भवेबरः ।। ४३ ।।
-
१ B दत्पान्न ।
Aho ! Shrutgyanam