________________
૨૦
मानसोल्लासः ।
पितृपक्ष समुद्भूता मातृपक्षसमुद्भवाः । आत्मसम्बन्धिनो ये च बान्धवास्ते प्रकीर्तिताः ॥ ३०२ ॥
बन्धूनां मधुरं वाच्यं यथायोग्यं सहासनम् । संविभागश्च कर्तव्यः सुवर्णाम्बर भूषणैः ॥ ३०२ ॥
[विशतिः १
तनाः किङ्करा दास्यो दासाः कर्मकरास्तथा । बुद्धिखनसहायाश्च भृत्यास्ते परिकीर्तिताः ॥ ३०३ ॥
एतेषां रक्षणं सम्यक् तथा भरणपोषणम् । दानं सम्माननं कार्ये लोकद्वय हितैषिणा ॥ ३०४ ॥ इति दीनानाथार्त बन्धु-भृत्यपोषणाध्यायः ॥ १९ ॥
व्याघ्र-सिंह- गजैथोरैः शत्रुभिचापि विद्रुतः । भयाच्छरणमायातः शरणागत उच्यते ॥ ३०५ ॥
रक्षेच्छरणमायातं प्राणैरपि धनैरपि । स यशो महदाप्नोति जनैः सर्वैः प्रपूज्यते ॥ ३०६ ॥
क्रतवो विधिसंयुक्ता भीतसध्वस्य रक्षणम् । तुळया तोलितं तत्र प्राणत्राणं विशिष्यते ॥ ३०७ ॥
इति शरणागतरक्षाध्यायः ॥ २० ॥
राज्यमाप्तेर्नृपकुलभुवामित्युपायोपदेशः
सम्यक् सोमेश्वरनृपतिना गर्भसारस्वतेन । ash चन्द्रप्रतिमयशसा रञ्जनाय प्रजानां
पुण्यौघानामपि च महतां वृद्धये वृ (बु) द्धये च ॥ ३०८ ॥
इति श्रीमहाराजाधिराजसत्याश्रयकुलतिलक - चालुक्या भरण- श्रीमद्मलोकमछश्री सोमेश्वरदेवविरचितेऽभिलषितार्थ चिन्तामणौ मानसोल्लासे राज्यप्राप्ते तूपायकथने प्रथमं प्रकरणम् ।
Aho! Shrutgyanam