________________
अध्याय १९] मानतीजासः।
मणिबन्धे बाहुसन्धौ दयाले गुल्फमूनि । हरेत् प्रादेशिकं यथितं वारिजन्ममिः ॥ २८७ ॥ मेदोग्रन्थीन् शितैः शस्त्रैः पाटयित्वा समुद्धरेत् । प्रदामश्मरीं शस्त्रैः पाटयित्वा बहिः क्षिपेत् ॥ २८८ ॥ गुदमध्येऽगुली क्षिप्त्वा मध्यमा परिवर्तयेत् । अश्मरीमानयेद् युक्त्या वस्त्युपान्तं विचक्षणः ॥ २८९ ॥ उच्छूना तो परिज्ञाय च्छिन्द्याच्छोण लाघवात् । कुलत्थमश्मभेदं च गोक्षुरं काययेजले ॥ २९० ॥ तयूषं पाययेत् माझो हरेत् तेनापि चाश्मरीम् । एवमन्येषु 'रोगेषु दोषो यत्राधिको भवेत् ॥ २९१ ॥ तस्य दोषस्य कुर्वीत चिकित्सा मतिमान् भिषक् ।
॥ इति वैद्यकम् ॥ औषधपर्यायानाह-यवासो दुरालमा । कटुका तिक्ता। सारिका मुगन्धिः । धन्वयवासो यशस्वी दुरालभा । लघुपश्चमूली बृहतीद्वयं शालि. पर्णी पृष्टिपर्णी गोक्षुरम् । कायस्था काकमाची । नाकुली लागुलिका। वयस्था धात्री । चोरका ग्रन्थिपर्णी । शिला मनःशिला । कालया दावी । मनन्ता दुरालभा । श्यामा कृष्णा। त्रिवृद् अरुणं त्रिवृत् । औषधं शुण्ठी । वटशुगः अविकासितपल्लवः । वृक्षाम्लः तिन्तिडीका । कोळ बदः ।
ही कर्कटकशृङ्गी । पील कर्णाटे गोत्रः । एरण्डः उरूबुकश्च पञ्चाङ्गुलः । विषा अतिविषा । माणिमन्यं सैन्धवम् । बिल्वः श्रीपर्णी । काश्मर्या तकारी। एकली टुण्टुकः कर्णाटे दुडुलुः । महापञ्चमूलम् । अभीरुका शतावरी । वृषिकः कर्णाटे वेलाडके । सैन्धवं सौवर्चलं बिडं काचः समुद्रः । पयस्या दुग्धी । रामठं हिङगु । ऊषणं मरीचम् । महौषधं शुण्ठी। वासा आटरूषकः। इस्योषधनिघण्टुः ॥ ३०० ॥
१ B दोषेषु । २ B गोतु
Aho! Shrutgyanam