________________
अध्याय १९ ]
मानसोल्लासः। पित्ते पीतं सदाहं वा सन्तप्तं शोणितान्वितम् । प्रस्तावमीरयेत् कृच्छू कफजं गौरवान्वितम् ॥ २३९ ॥ उरुबूको बला बिल्वं पश्चमूलद्वयं यवा । पुनर्नवा भीरुमूलं कुलत्थं बदरं तथा ॥ २४० ॥ मत्स्याक्ष-मत्स्यभेदं च तत् सर्व च समं कृतम् । तत्वायेन सकल्केन सर्पिस्तैलयुतेन च ॥ २४१ ॥ सूकरस्याच्छभल्लस्य वसया मिश्रितेन च । पञ्चभिलवणैः साई शूलं पीतेन हन्यते ॥ २४२ ॥ शतावरी गोक्षुरकं कसेरुं च विदारिकाम् । कुश-काश-कुशालीनां शराणां मूलपञ्चकम् ॥ २४३ ॥ तत्कायः शर्करायुक्तः शीतो मधुसमन्वितः । पित्तनं नाशयेत् कृच्छं सर्वा च शिशिरक्रिया ॥ २४४ ॥ सूक्ष्मैला सुरया युक्तां धात्रीफलरसैरपि । पाययेत् कफजे कृच्छ्रे वमनं चापि कारयेत् ॥ २४५ ॥ मधुरं शीतलं स्निग्धमम्लं गुरु च पिच्छलम् । अन्न-पानं च कुरुते प्रमेहं कफदूषणात् ॥ २४६ ॥ विशाला-त्रिफला मुस्ता-दार्वी-दारुविनिर्मितः । कायो निवारयेन्मेहं निशाकल्कविमिश्रितः ॥ २४७ ॥ त्रिफला चित्रकं दावी कलिङ्गा मधुमिश्रिताः । जलेन कथिता मेहं पीता निघ्नन्ति तत्क्षणम् ॥ २४८ ॥ पिवेद् वा श्रीफलरसं माक्षिकेण समन्वितम् । गुइच्याः स्वरसं वाऽपि मधुना सह मिश्रितम् ॥ २४९ ॥ रूक्ष-पर्युषितानुष्णशुष्कर्भुक्तैर्विदाहिभिः । रक्तं प्रकुपितं शोफ कुरुते स तु विद्रधिम् ॥ २५० ॥
Aho ! Shrutgyanam