________________
मानसोल्लासः।
पिंशतिः १ शृङ्गी-हरीतकी-कुष्ट-भल्लातकफलैः कृतैः। लेपस्तुत्यसमोपेतो गुदकीलविनाशनः ॥ २२७ ॥ मूलं(लैः) शिग्रुभवै जैनिम्बाश्वत्थदलैरपि । विल्वेन पीलुमूळेन रामठेनापि लेपनम् ।। २२८ ॥ पथ्याचूर्ण सलवणं तकेण च विलोडितम् । पीतमोहरं प्राहुर्गुडपथ्यां च तद्विदः ॥ २२९ ॥ अत्यम्बुपानाजायेत सुतरामतिसाररुक् । आमः पकः सरक्तश्च त्रिधाऽसौ व्याधिरीरितः ॥ २३०॥ तत्रामे नागरं मुस्ता तथा च यु(घु)णवल्लभा । तच्चूर्ण वटकः क्वाथः पाचनाय प्रयुज्यते । २३१ ॥ पक्कातिसारे दातव्यं जम्बूपल्लव-धातकी । जीरकं चूतबीजं च महावृक्षत्वचस्तथा ॥ २३२ ।। बिल्लारनाल-गोकण्ट-पश्चाङ्गुळयवैः शृता । स्विमा क्षौद्रयुता पथ्या पक्कातीसारभेषजम् ॥ २३३ ।। विषा कुटजबीजं च मुस्ता वालक-विस्वकम् । तत्कायो विनिहन्त्याशु रक्तातीसारमुल्षणम् ॥ २३४ ॥ अतिसारेषु जावेषु पथ्यं नानाति यः पुमान् । ग्रहणी जायते तस्य मुहुर्षद्धाऽतिसारिणी ॥ ३५ ॥ शुण्ठी सातिविषा मुस्ता क्वायः पीतो निहन्ति ताम् । गुडूच्या संयुतोऽप्येष चतुर्भद्र इतीरितः ॥ २३६ ॥ दीप्यकं माणिमन्यं च जलेन परिपेषितम् । उपयुक्तं निहन्त्याशु सुकृच्छ्रां ग्रहणीमिदम् ॥ २३७ ॥ त्रिविधं भूत्रकृच्छ् स्याद् वात-पित्त-कफोद्भवम् । मेहने वक्षणे वस्तौ वातजं जनयेद् व्यथाम ॥ २३८॥
Aho ! Shrutgyanam