________________
मानसोल्लासः ।
अनिष्टानोपयोगेन मारुतः कुपितो भृशम् । उदानः कुरुते छर्दि नाभिपृष्ठरुजान्विताम् || २१५ ॥
अध्याय १९ ]
जम्बू-चूत-बलोशीर- वटशृङ्गावरोहजः । क्षौद्रेण सहितः कायः पीत छर्दिविनाशनः ॥ २१६ ॥
क्षौद्रं हरीतकीचूर्ण कोळं वा मधुमिश्रितम् । मनं वा वमिद्रव्यै छर्दि विनाशयेत् ॥ २१७ ॥
हीनमिथ्यातिपानेन भवत्याशु मदात्ययः । छर्दिर्मो भ्रमस्तन्द्रा मलापो जायते ततः ।। २१८ ॥
पश्चाहं सप्तरात्रं वा जायतेऽसौ मदात्ययः । अत ऊर्ध्वं प्रसक्तश्चेद् रोगोऽन्यः परिकीर्त्यते ॥ २१९ ॥
सहलासे सदाहे च सहच्छ्रले मदात्यये । मनं वमनद्रव्यैः प्रयुञ्जीत प्रयोगवित् ।। २२० ॥
तृषि द्राक्षारसो देयो मधुना परिमिश्रितः । पाटल्युत्पलकन्दैर्वा तोयं केवलमेव वा ।। २२१ ।।
चिश्चा-दाडिमवृक्षाम्लैः सह कोळाळवेत सैः । मुखलेपः कुतो हन्ति तृष्णां मद्यसमुद्भवाम् ।। २२२ ॥ मोहे विदाहे भ्रान्तौ च कर्त्तव्या शिशिरक्रिया | शिरःशूळे च जाडये च घनं प्रावरणं हितम् || २२३ ॥ स्वापः प्रलापबहुळे योजनीयो मदात्यये । छाग- तित्तिर- लावैण-शशमांसरसैर्युतम् ।। २२४ ।। सक्तपिष्टकमश्नीयात् पिबेश्च स्वादु पानकम् । घृतं वा केवलं पीतं मदात्ययहरं परम् ॥ २२५ ॥
गुदावलिसम्भूता विष्टाधारण हेतुकाः । अङ्कुराः कथिताः प्राज्ञैरर्शासीत्यभिधानतः ॥ २२६ ॥
Aho! Shrutgyanam
२१