________________
२४
मानसोल्लासः ।
एरण्डश्च विदारी च वृश्चिकश्च पुनर्नवा । स्नेहत्रयं पचेदेतैस्तल्लेपाद विद्रधिं जयेत् ॥ २५९ ॥ निशा दार्वी-पयस्याभिर्यष्टया दुग्धेन रोपयेत् । क्षीरवृक्षप्रवालत्वक्फलैः कफसमुद्भवः(म्) ॥ २५२ ॥ काधकरकादिसंयुक्तैर्विद्रधि नाशयेद् भिषक् । अतीसार- ज्वरच्छर्दिकर्शितो वातलं भृशम् || २५३ ॥
उपयुङ्केन-पानाय शीतं चाम्बु बुभुक्षितः । क्वायो देहसंक्षोभि कुरुते कर्म सत्वरम् || २५४ |
[ चिंशतिः १
तस्य सञ्जायते गुल्मो वातसंक्षोभहेतुकः । उग्रगन्धा विदं शुण्ठी पुष्करं कवणत्रयम् ॥ २५५ ॥
राम चित्रकं तेषां चूर्ण गुल्मनिबर्हणम् । मरीचाजाजि- हनुषा- पृथ्वीका पञ्चकोलके ॥ २५६ ॥
दधा दुग्धेन सम्मिश्रैस्तथा मांसरसेन च । दाडिमा बदरान्मूळात् कल्कं निक्षिप्य सर्पिषि ।। २५७ ॥
त्रिगुणं जलमादाय पचेद् गुल्मविनाशनम् । अजीर्णस्यानुबन्धेन मलिनादन-पानतः ॥ २५८ ॥
विद्रोघाज्जायते व्याधिरुदरं वह्निमध्यतः । त्रिसप्तकृत्वः स्नुक्क्षीरभावितं मागधीरजः ॥ २५९ ॥
उष्णोदकेन पीतं च जठरव्याविनाशनम् । पलानां त्रितयं शृण्ठ्या दशमूलात् पलानि षट् ॥ २६० ॥
तैळाढकं घृतप्रस्थं मस्तुद्रोणेन संयुतम् ।
मिना पचेत् सर्व घृततैलावशेषितम् ॥ २६१ ॥
तन्मात्र योपयुञ्जीत निःशेषोदररोगजित् । वायुना वलिना क्षिप्रं पित्तं व्याप्याखिलां तनुम् ॥ २६२ ॥
Aho! Shrutgyanam