________________
मानसोल्लासः ।
एतैरेवौषधैः पिष्टैर्लावणक्षारसंयुतैः । साम्लेर्विपचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥ १९३ ॥
अध्याय १९ ]
शीतम्बरे शिळातैललेपनं परमौषधम् । हिङ्गु-सैन्धवसंयुक्तं नस्यं जीर्णघृतान्वितम् ॥ १९४ ॥
धात्रीचूर्ण घृताद् घृष्टमम्ळवेतसमम्भसा । प्रलेपाद् दाइनुत् फेनो बदर्या वा दलोद्भवः || १९५ ॥ काले बदरानन्ता - यष्टी - चन्दन - कक्षिकैः । सघृतैः स्याच्छिरोलेपस्तृष्णादाहज्वरापहः ॥ १९६ ॥
सन्निपातज्वरान्मुक्ते शोफो भवति दारुणः । कर्णमूले यदा तेन कश्चिदेव विमुच्यते ॥ १९७ ॥
रक्तावशोधनं कार्य नीरजाभिर्मुहुर्मुहुः । तथा कार्य प्रयत्नेन यथा पाको न जायते ॥ १९८ ॥
घृतं च पाचयेत् सिद्धं तिक्तैर्वा मधुरैरपि । एवं कृतं घृतं देयं मधुरं वात-पित्तयोः ॥ १९९ ॥
•
क्षाराम्ललवणैर्द्रव्यैरवियुक्तैः श्रमादपि । आतपाच्च भृशं पित्तं कुपितं दूषयेदसृक् ॥ २०० ॥
ततो प्राणास्य कर्णेभ्यः पायु-मेहनमार्गतः । प्रवर्तते ततः ख्यातं रक्तपित्तं भिषग्वरैः ।। २०१ ॥
एकदोषं नवं चोर्ध्व बलिनश्चानुपद्रवम् । रक्तपित्तं सुखात् साध्यमधश्चेद् याप्यमुच्यते ॥ २०२ ॥
अधश्चोर्ध्वं च चलितं त्रिदोषं भूर्युपद्रवम् । असाध्यं रक्तपित्तं तत् त्यजनीयं भिषग्वरैः ॥ २०३ ॥
१ A तदाख्यातं
Aho! Shrutgyanam
१९