________________
मानसोल्लासः।
[विंशतिः१ पाठा-पटोल-कटुका-सारिवा मुस्तयाऽन्विताः । एतैः सिद्धः कषायस्तु सन्ततज्वरघातकः ।। १८१ ॥ मृद्वीका-त्रिफला-निम्ब-पटोली-मुस्त-वत्सकैः । कृतः क्वाथो निहन्त्येष ज्वरमन्येचुरुद्भवम् ॥ १८२ ।। शुण्ठी-गुडूची भूनिम्ब-चन्दनैः परिकल्पितः । कायो निहन्ति न चिरात तृतीयाहभवज्वरम् ॥ १८३ ॥ गुडूच्यामलकैर्मुस्ताकाथो मधुसमन्वितः । ज्वरं निवारयत्याशु चतुर्थदिनसम्भवम् ॥ १८४ ॥ मूर्वा-निम्ब-पटोलातिविष-धन्वयवासकैः । शुण्ठी-मुस्तामृतायासैः क्वाथो वातज्वरापहः ॥ १८५ ॥ अमृता पिप्पलीमूलं नागरेन्द्रयवाम्बुदैः । लघुना पञ्चमूलेन क्वाथ: स्यात् पित्तजे ज्वरे ॥ १८६ ॥ कटुका पर्पटं मुस्ता भूनिम्बश्च दुरालभा । एतैः सवत्सकैः क्वाथो ज्वरं हन्यात् कफोद्भवम् ॥ १८७ ॥ ज्वरोऽन्यः सनिपातोत्थः पित्तं यत्र पृथग् मतम् । त्वचि कोष्ठेऽथवा दोष(दाह) विदधातु(ति) पुरो न(ऽनु) वा॥१८॥ शीतं वात-कफौ तद्वद् दुस्तरो दाहपूर्वकः । शीतादौ तत्र पित्तेन कफे स्यन्दित-शोषिते ॥ १८९ ॥ शान्ते शीतेऽम्लकोदारो मदस्तृष्णा भवेदतः । दाहादौ पुनरेते स्युस्तन्द्रा स्वेद-वमि-लमाः ॥ १९० ॥ पटोल-कटुका-मुस्ता-प्राणदा-मधुकैः कृतः। त्रि-चतुः-पञ्चशः काया शीतिके विषमज्वरे ॥ १९१॥ कायस्या-नाकुली-तिक्ता-वयस्थागरु-चौरकैः। सहदेवी-बचायुक्तैः शीतने धूप-लेपने ॥ १९२ ॥
Aho ! Shrutgyanam