________________
अध्याय १९ ]
मानसोल्लासः ।
मुद्रादिधान्यकथितं तोयं यूषं निगद्यते । अस्नेहलवणं यूषं दकमित्यभिधीयते ॥ १७० ॥
3
लवणस्नेहसंयुक्तं यूषं लावणिकं विदुः । षडङ्गं वर्तयेत् ताभ्यां रसैर्वा मुद्द्र-लाजजैः ।। १७१ ।।
ज्ञात्वा दोषसमुत्थानं बलं रक्षेत् प्रयत्नतः । लङ्घनैः पेयपीयूषै रसैर्दोषं विपाचयेत् ।। १७२ ॥
दोषपाके च सञ्जते सप्तरात्रादतः परम् । पाचकैः शनकैः क्वाथैर्दोषशेषं तु निर्हरेत् ॥ १७३ ॥
तिक्तः पित्तहरो देयः कटुकः कफनाशनः । पित्त - श्लेष्महरोऽप्येष कषायो ने वरो रसः || १७४ ॥
नवज्वरे मलं रुध्दा ज्वरं विषमतां नयेत् । लापरुचि हिक्कां कषायो जनयेदसौ || १७५ ||
वरस्य मार्दवे जाते कायस्यापि च लाघवे । चलिते च मळे तज्ज्ञैस्त्रिरात्राद् देयमौषधम् ॥ १७६ ॥ सुस्तापर्यटककाथः शुण्ठीपर्पटकोऽपि वा । वाटको वाऽपि देयो ज्वरविनाशनः ।। १७७ ॥
पक्वः शीतः कषायो वा पाठोशीरैः सवालकः । अमृता- विश्व - भूनिम्ब- मुस्ताकाथोऽपि वा ज्वरे ॥ १७८ ॥
यथासात्म्यं प्रयोक्तव्याः कषाया दोषनाशनाः । अरुचि-ज्वर-तृड्-वक्त्रवैरस्यापाकनाशिनः ।। १७९ ॥
पटोलपत्रं कटुका बीजानि कुटजस्य च । एतैः कथितः काथः सन्ततज्वरनाशनः ॥ १८० ॥
१ A नवघा ।
Aho! Shrutgyanam
१७