________________
मानसोल्लासः ।
अजीर्यत्यौषधं यस्माज्ज्वरार्तस्य विनाऽग्रिना । तस्मान दद्याद् भैषज्यं लङ्घनं तु प्रयोजयेत् ॥ १४८ ॥
अध्याय १९ ]
भक्ष्यभोज्यस्य चोष्यस्य लेह्य-पेयस्य वारणम् । लङ्घनं प्रोच्यते सद्भिः कायलाघवकारणम् ।। १४९ ॥
वयोदोषं बलं कालं प्रकृर्ति कारणं तथा । विचार्य लङ्घनं कार्ये यावच्छुद्धं भवेद् वपुः ॥ १५० ॥
एकरात्रं त्रिरात्रं च पञ्चरात्रमथापि वा । सप्तरात्रं नव निशा निशाचैकाधिका दश ।। १५१ ॥
लङ्घनस्य कृतः काको दोषरूपानुसारतः । दातव्यमौषधं पश्चात् ज्वरामयविनाशनम् ॥ १५२ ॥
एकभक्तं तथा पेया मण्डो वा कोष्णवारिणा । दोषकोपानुसारेण लङ्घनं विविधं स्मृतम् || १५३ ॥
लङ्घितस्य यदा स्वास्थ्यं क्षुत् तृष्णा पाटवं रुचिः । मनःप्रसत्तिरोजश्च पक्तिळघवलक्षणम् ।। १५४ ॥
लङ्घनैर्विज्वरं जातं लघुपथ्यैर्मिताशनैः । उपाचरेद् भिषक् सम्यग् यावत् स्याद् दिनसप्तकम् ॥ १५५ ॥
नेऽपि कृते सम्यग् दृष्टे लङ्घितलक्षणे ।
ज्वरो यदि न मुच्येत तं पेयाभिरुपाचरेत् ॥ १५६ ॥
वात-पित्त - बळासानां ज्ञात्वा लक्षणमुत्कटम् । तस्योपशमनैर्द्रव्यैः कृत्वा पेयां प्रदापयेत् ।। १५७ ।।
शूलेऽधिज्ञेयस्तापे पित्तं च लक्षयेत् । जाये कफं विजानीन्मिश्रे मिश्रं तु लक्षयेत् ॥ १९८ ॥ १ A भैषज्यं योजयेत्ततः ।
१५
Aho! Shrutgyanam