________________
अनुक्रमणिका ]
मानसोल्लासः ।
अथ प्राप्तस्य राज्यस्य स्थैर्यकारणविंशतिः । सप्ताङ्गानि तथा तिस्रः शक्तयः षड् गुणा अपि ॥ १९ ॥ उपाया अपि चत्वार इति विशतिरीरिता । स्वाम्यमात्य-सुहृत्- कोश-राष्ट्र- दुर्ग- बलानि च ॥ २० ॥
राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च । सन्धिश्व विग्रहो यानमासनं द्वैधमाश्रयः ॥ २१ ॥ षड् गुणाः शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः । भेदो दण्डः साम दानमित्युपायचतुष्टयम् ॥ २२ ॥ अथ राज्योपभोगस्य विंशतिः कथ्यते क्रमात् । ताम्बूलस्य विलेपस्य भोगश्चाम्बर- माल्ययोः ॥ २३॥
भूषणासनयोर्भोगश्चामरास्थानयोरपि । पुत्राणामुपभोगाच भोजनस्य जलस्य च ।। २४ ।।
पादाभ्यङ्गस्य यानानां छत्राणां शयनस्य च । धूपस्य योषितां चेति भोगानां विंशतिः पृथक् ॥ २५ ॥
विंशतिः कथिता भोगा विनोदा नामतोऽधुना । दाक्ष्यं शस्त्रस्य शास्त्रस्य विनोदा गजवाजिनोः ॥ २६ ॥
- मल्ल विनोदस्तु विनोदस्ताम्रचूडजः । aranस्य तित्तिरस्य महिषस्य विनोदनम् || २७ ॥
पारावतविनोदश्च विनोदः सारमेयजः । श्येन - मीन-मृगाणां च विनोदो गीत वाद्ययोः ॥ २८ ॥
नृत्तस्य च कथायाश्च विनोदश्च चमत्कृतेः । प्रमोदाय विनोदानामिति विंशतिरीरिता ॥ २९ ॥
१ पानानां । २A भूषणं ।
Aho! Shrutgyanam