________________
8
मानसोल्लासः ।
or सौख्यप्रदा क्रीडाविंशतिः कथ्यते क्रमात् । पर्वते प्रमदोद्याने प्रेङ्खायां जलसेचने ॥ ३० ॥ क्रीडा तु शाद्वले देशे वालुकायां शशित्विषि । सस्यक्षेत्रे सुरागोष्ठयां महेलाकथनेष्वपि ॥ ३१ ॥ चतुरङ्गाक्षयोः क्रीडा वराटक- फणीन्द्रयोः । पञ्जिकायां च तिमिरे क्रीडा धीरेनरोचिता ॥ ३२ ॥ प्रेमक्रोडा रतौ क्रीडा क्रीडानां विंशतिः पृथक् । अध्यायशतकं त्वेवं पञ्च प्रकरणानि च ॥ ३३ ॥ इति संक्षेपतः प्रोक्तं मानसोल्लास बीजकम् । विस्तृतं शतशाखाभिर्वक्ष्ये कल्पद्रुमोपमम् ॥ ३४ ॥
कामलोभाद्भयात् क्रोधात् साक्षिवादात् तथैव च । मिथ्या वदति यत् पापं तदसत्यं प्रकीर्तितम् ॥ ३५ ॥ देवतासन्निधौ वाक्यं ब्रूते शपथपूर्वकम् । तद्• यो लङ्घयते मोहात् तच्चासत्यं प्रकीर्त्तितम् ॥ ३६ ॥
[ विशतिः १
अस्वर्ग्यमयशस्यं च लोकद्विष्टं जुगुप्सितम् । अनृतं नितरां पापं तस्मात् तत् परिवर्जयेत् ॥ ३७ ॥ इत्य सत्यवर्जनाध्यायः ॥ १ ॥
ताडनं छेदनं क्लेशकरणं वित्तबन्धनम् । परेषां कुरुते यत् तु परद्रोहः स उच्यते ॥ ३८ ॥
पैशुन्यं परवादं च गालिदानं च तर्जनम् । मर्मोद्घाटं विधत्ते यत् परद्रोहः स उच्यते ॥ ३९ ॥
गृहद्वावसुक्षेत्रं वसु (ख) धान्यं धनादिकम् । हैरते यत् तु मूढात्मा परद्रोहः स उच्यते ॥ ४० ॥ १ B बीर० । २ A दहते ।
Aho! Shrutgyanam