________________
मानसोल्लासः । [अनुक्रमणिका स्थाणुर्यस्येच्छया जातः शरीराधभृतप्रियः ।। अरिक्तशक्तये तस्मै नमः कुसुमधन्वने ॥ ८ ॥
.
चालुक्यवंशतिलका श्रीसोमेश्वरभूपतिः । कुरुते मानसोल्लासं शास्त्रं विश्वोपकारकम् ॥ ९ ॥ शिक्षकः सर्ववस्तूनां जगदाचार्य पुस्तकः । अभ्यस्योऽयं प्रयत्नेन सोमभूपेन निर्मितः ॥ १० ॥ अत्रादौ कथ्यते राज्यप्राप्तिकारणविंशतिः । तस्य प्राप्तस्य राज्यस्य स्थैर्यकारणविंशतिः ॥ ११ ॥ स्थिरराज्यस्य भूभर्तुरुपभोगाश्च विचतिः । प्रमोदजनकास्तद्वद् विनोदा अपि विंशतिः ॥ १२ ॥ मुखोपपादिका क्रीडाविंशतिः परिकीर्त्यते। अनुक्रमणिका तत्र वच्मि संक्षेपतः पुरः॥ १३ ॥ असत्यवर्जनं कार्य परद्रोहस्य वर्जनम् । वर्जनं चाप्यगम्यानामभक्ष्यस्य च वर्जनम् ।। १४ ॥ अस्यावर्जनं चैव पतितः सावर्जनम् । क्रोधस्य वर्जनं चैव स्वात्मस्तुतिविवर्जनम् ॥ १५ ॥ दानं मनोहरं वाक्यमिष्टापूर्वप्रवर्तनम् । अशेषदेवताभक्ति!षु विषेषु तर्पणम् ।। १६ ॥ पितॄणां तर्पणं कार्यमतिथेश्चैव भोजनम् । शुश्रूषणं गुरूणां च तपस्तीर्थेषु मज्जनम् ॥ १७ ॥ दीनानाथार्तबन्धूनां भृत्यानामपि पोषणम् । शरणागतरक्षा च राज्यलाभाय विंशतिः ॥ १८ ॥
१B • वस्तूनि ।
Aho ! Shrutgyanam