________________
श्रीसोमेश्वरभूपतिविरचितो मानसोल्लासः ।
अभीष्टफलदं सिद्धिसिद्धमन्त्रं गणेश्वरम् । कर्णताला निलोद्धृतविघ्नतूळलचं नुमः ॥ १ ॥
संवत्सखी जयत्येका काऽपि शुद्धा सरस्वती । यया स्वतः प्रर्बुद्धानां प्रकाशोऽतिप्रकाश्यते ॥ २ ॥
वन्दे भवलताबीजं लिङ्गरूपं महेश्वरम् । स(अ) व्यक्तमपि सुव्यक्तं यस्यान्तः सचराचरम् ॥ ३ ॥
कृष्ण कृष्णहर रक्ष मां विभो मां रमारमण माविभुं कुरु । ते हरे नरहरे नमोऽस्तु मे देहि देव पदमच्युताच्युतम् ॥ ४ ॥
नौमि वेदध्वनिवरं देवं धत्ते सदैव हि । नाभिपद्मोदरे विष्णोः कणद्भ्रमरविभ्रमम् ॥ ५ ॥
तं नमस्कुर्महे शक्रं देवानामपि दैवतम् । यो लोचनसहस्रेण विश्वकार्याणि पश्यति ॥ ६ ॥
यः सन्ततं तततमः पटलं विदीर्य सावित्रिक करशतैर्वमति प्रकाशम् ।
तं विश्वरक्षणपटुं परमेकमाद्य
मादित्यमद्भुतविलासविधिं नमामि ॥ ७ ॥
१ B • बुद्धी • । २ A
०
०
०
कृतक्षण
° |
Aho! Shrutgyanam