________________
अध्यायः १३ ]
मानसोल्लासः। चाषे मृगभरद्वाजे फलपुष्पाक्षतेष्वपि । वृषभे समदे नागे सिते वाहे द्विजोत्तमे ॥ ८१९ ॥ मुवर्णे दिव्यरत्ने च वीणायां पटहे तथा । बड़े चैव पशोष्टे यात्रा भवति सिदिदा ।। ८२० ॥ नृपो विप्रः मुहद् धेश्या कुमारी पाण्दुराम्बरा । वृषाच कुअरारूढा नरा नार्यः शुभावहाः ॥ ८२१ ॥ गच्छेति पृष्ठतो वाक्यमेहीति पुरवः शुभम् । आशिषः सर्वतः शस्ता मनसस्तुष्टिरूर्जिता ॥ ८२२ ॥ छिन्धि भिन्धि जहीत्यादि वाचो निन्धा अपि स्फुटम् । उधतानां रिपोर्घाते पापद्धौं शोभनाः सदा ॥ ८२३ ॥
इति यात्रायां मङ्गलप्रदानि शकुनानि ॥ श्वा यात्रासमय गच्छेद् वामं दक्षिणतो यदि । स्पृशेद् वा श्रवणं वामं यात्रासिद्धिभेवेत् तदा ॥ ८२४ ॥ प्रवेशे दक्षिणं गच्छेज्जृम्भते वा रतोयतः । करोति नितरी सौख्यं विपरीता तु कुकरी ॥ ८२५ ॥ क्रोशदयं यदा गच्छेत् सह पान्येन मण्डलः । वामगो मूत्रयेद् वाऽपि तदाऽसौ शुभमूचकः ॥ ८२६ ॥ गजस्थानं हयस्थानं शादलं शयनस्थलम् । . उलूखल-ध्वज-छत्र-चामरं सफलद्रुमम् ।। ८२७ ॥ 'इष्टिकानिचयं कुम्भं पर्याणं मृत्तिकाचयम् । पुष्पबत् फलवत् स्थानं श्वा गच्छन् शुभदो भवेत् ॥ ८२८ ।। कृतमत्रो यदा गच्छेत पुरस्तात् सरमासुतः। तदाऽभिलषितं कार्य यातुः सिध्यति निश्चितम् ॥ ८२९ ॥
Aho ! Shrutgyanam