________________
१०२
मानसोल्लासः।
[विंशतिः २ मूले मूलकमास्वाधं पूर्वाषाढे घनं दधि। उत्तरायां जलं शीतं श्रवणे श्लक्ष्णसक्तवः ॥ ८०८॥ शालिभक्तं धनिष्ठायां वारुणः च शकुलीः । पूर्वाभाद्रपदे क्षौद्रं बीजपूरं तथोत्तरे ॥ ८०९ ॥ रेवत्या सिद्धमुगाः स्युरश्चिन्यां स्वादु भोजनम् । भरण्यां सतिलं तोयं प्राश्य याता सुखी भवेत् ॥ ८१० ॥
इति नक्षत्रदोहदम् ॥ पुष्पवत्यां महादेव्यामकाळे वृष्टिदर्शने । समाते गोत्रकलहे वृषदंशमृगे तथा ॥ ८११ ॥ आशौचे गृहदाहे च भूकम्पे चण्डमारुते । दिग्दाहे भूमिनिर्घोषे न गन्तव्यं जिगीषुणा ॥ ८१२ ॥ भुते स्वयं वाऽपि परैर्लने क्वापि च वारिते। रष्टे ज्वाला विना धूमे तुषकाष्ठस्य दर्शने ॥ ८१३ ।। मपीभस्मनि तैले च परिशुष्क च गोमये । शशे दिगम्बरे सर्प न गन्तव्यं सुखार्थिना ॥ ८१४ ॥ खरोष्ट्रमहिषारूढाः संन्यासिश्रावकान्त्यजा। कर्णनासादिभिहींना विकेशाः कृष्णवाससः ॥ ८१५ ॥ मुक्तकेशाप्रतिकृष्णाका तैलाभ्यक्ता रजस्वला । गर्भिणी विधवोन्मत्त-क्लीबान्ध-बधिरा नराः ॥ ८१६ ॥ एतेषां दर्शने जाते न गन्तव्यं कदाचन । आत्मनो दौर्मनस्ये च न यात्रा सिद्धिदा भवेत् ॥ ८१७ ।।
इत्यमङ्गलानि शकुनानि ॥ पूर्णकुम्भे तथाऽग्दर्श दनि मधे तथाऽऽमिषे । मीने शङ्के ध्वजे छत्रे चामरे वारयोषिति ॥ ८१८ ॥
Aho ! Shrutgyanam