________________
अध्यायः १३]
मानसोडासः। सोमे शनैश्व-रे वारे दिशं प्राची परित्यजेत् । गुरोर्वारे न गन्तव्यं दक्षिणां ककुभं प्रति ॥ ७९७ ॥ वारशूलमिदं प्रोक्तमाचार्यैः कैश्चिदेव हि। तस्मादस्मिन् न गन्तव्यं वारशूले विचक्षणैः ॥ ७९८ ॥
इति वारशूलम् ॥ आदित्यस्य दिने वा धनिष्ठा कृत्तिका मघा । अनुराधा तथाऽश्लेषा भरणी गमने बुधैः ॥ ७९९ ॥ आषाढे द्वे विशाखा च त्याज्याः सोमस्य वासरे । धनिष्ठाऽर्दा शतभिषग् भौमवारे विवर्जिताः॥ ८०० ॥ कृत्तिका रेवती मूलमनुराधा तथाऽश्विनी । वा शतभिषक् चैव बुधवारे शुभेच्छुभिः ॥ ८०१ ॥ सुगं शतभिषा पौष्णं वर्जयेद् गुरुवासरे । पुष्याश्लेषामघा वामी याने शुक्रदिने त्यजेत् ॥ ८०२॥ आषाढयुगलं हस्तं चित्रामुत्तरफाल्गुनीम् । मन्दवारे त्यजेत् पाझो यात्रायां पार्थिवोत्तमः ॥ ८०३ ॥
इति ऋतदोषवारणानि ॥ बहलासु दधि प्राश्यं ब्रायां च घृतपायसम् । ऐन्दवे माषवटिका रौद्रे च मधुरं दधि ॥ ८०४ ॥ पुनर्वसौ पटोलानि पुष्ये सर्पिश्च पायसम् । सर्पधिष्ण्ये तिला भक्ष्या मघामु कशरोदनम् ॥ ८०५ ॥ पायसं पूर्वफाल्गुन्यामर्यम्णे शाकभोजनम् । यावकं पाणिनक्षत्रे चित्रायां चित्रभोजनम् ।। ८०६ ॥ स्वास्यां धात्रीफलं खाद्यं द्विदैवे गुडभक्तकम् । कुलत्थान मित्रनक्षत्रे यावकं शक्रदेवते ।। ८०७ ॥
Aho ! Shrutgyanam