________________
१००
मानसोल्लासः ।
मैत्राश्वि- पुष्य - हस्ताश्च सर्वदिक्षु शुभावहाः । यात्रायां सुप्रशस्तास्ते सर्वद्वारिकसंज्ञिताः । ७८६ ॥ गच्छेत् माचीमुदीचीं च कृत्तिकादिषु सप्तसु । मघादिसप्तके गच्छेद् दक्षिणां पश्चिमां दिशम् || ७८७ ॥
[ विशतिः २
मैत्रादिसप्तके यायात् पश्चिमां दक्षिणां दिशम् । धनिष्ठादिषु धिष्ण्येषु व्रजेद् यक्षेन्द्रयोदिशोः ॥ ७८८ ॥
वैपरीत्याद् यदा गच्छेत् परिघो लङ्घितो भवेत् । लङ्घितः परिषो हन्ति सर्वकार्याणि यायिनाम् ॥ ७८९ ॥
वायव्यमानमाशां समाक्रम्य स तिष्ठति । परिघो दण्डवत् तस्माद् यात्रायां तं विवर्जयेत् ॥ ७९० ।।
गमनं केचिदिच्छन्ति कृत्तिकादिषु सप्तसु । आग्नेयां दिशि प्राच्यां च न दोषः परिघोद्भवः ॥ ७९१ ॥
मादिषु तथाssari प्राचीं गच्छन् न दुष्यति । "मैत्रादिषु दिशं वायोर्धनदस्य दिशं व्रजेत् ।। ७९२ ॥
धनिष्ठादिषु धिष्ण्येषु वायव्यामथ वारुणीम् । ककुभं गच्छता नैव परिघो लङ्घितो भवेत् ॥ ७९३ ॥
ज्येष्ठा प्राचीदिशं हन्ति गच्छतां कामितं फलम् । पूर्वाभाद्रपदा याभ्यां प्रतीचीमपि रोहिणी ॥ ७९४ ॥
उत्तराफाल्गुनी तद्वदुत्तरां ककुभं सदा । यातॄणां च भवेत् क्लेशः सन्देहेन निवर्त्तनम् || ७९५ ॥
इति सर्वदिक्षाणि ।
शुक्रादित्यदिने गन्ता वर्जयेत् पश्चिमां दिशम् । बुधे भौमे च कौबेरीं ककुभं परिवर्जयेत् ॥ ७९६ ।।
Aho! Shrutgyanam