________________
अध्यायः १३]
मानसोल्लासः। बुधजीवसितानां च यदि केन्द्रत्रिकोणगः । एको भवेद् ग्रहो यस्य तस्य यात्रा सुखप्रदा ॥ ७७४ ।। दो चेत् केन्द्रत्रिकोणस्थावतियोगः स कथ्यते । तत्र यात्रा नरेन्द्राणां क्षेमदा रिपुनाशिनी ॥ ७७५ ।। योगाषियोगः कथितः त्रिभिः केन्द्रत्रिकोणगैः । तत्र यातुर्भवेत् क्षेमो भुवो लाभो रिपोर्वधः ॥ ७७६ ॥ केन्द्रत्रिकोणगाः सौम्याः पापाः षष्ठ-त्रि-लाभगाः। ग्रहा यस्य प्रयाणे स्युस्तस्य लाभो जयो भवेत् ॥ ७७७ ॥ योगयात्रा भवेच्छस्ता नृपाणां भूतिमिच्छताम् । तारागुणे द्विजातीनामन्येषां शकुनादिभिः ॥ ७७४ ॥ उत्तराम विशाखायां रोहिण्यां गमने नृपः । दिवसस्प तृतीयांशमाघमागं विवर्जयेत् ॥ ७७९ ॥ सार्प-राक्षस-ौद्वेषु ज्येष्ठायां वासरस्य हि । वर्जयेन्मध्यमं भागं यात्रायां पृथिवीपतिः ॥ ७८० ॥ स्वात्यश्वि-पुष्य-इस्तेषु यात्रायां परिवर्जयेत् । दिनस्य पश्चिमं भागं जयपिच्छन् महीपतिः ॥ ७८१ ॥ मैत्रैन्द्र-त्वाष्ट्र-पौष्णेषु त्याज्यो यनान्महीभुजा । रजन्याः प्रथमो भागः सदा विजयमिच्छता ॥ ४२ ॥ याम्ये पूर्वात्रये मैत्रे निशामध्यं परित्यजेत् । गमने भूपतिदक्षो रिघाती जयोत्सुकः ॥ ७८३ ।। श्रवणादित्रये त्याज्यो नक्षत्रे दितिदैवते । निशायाश्चरमो भागः प्रयाणे पृथिवीभुना ॥ ७८४ ॥ श्रवणे च तथा हस्ते पुष्ये च मृगमस्तके । सर्वदा गमनं शस्तं नृपाणां सिद्धिमिच्छताम् ॥ ७८५ ॥
Aho ! Shrutgyanam