________________
मानसोडासः।
[धितिर पश्चमी श्रीकरी ज्ञेया षष्ठी यानेऽतिकुत्सिता । सप्तमी सर्वलामाय कुत्सिता चाष्टमी तिथिः ॥ ७६२ ॥ नवमी च सदा निन्या भूमिदा दशमी भवेत् । वैष्णवी जयदा नित्यं द्वादशी परिवर्जिता ।। ७६३ ॥ किं पुनर्बहुनोक्तेन सर्वसिद्धा त्रयोदशी । असिते च सिते पक्षे वर्जनीया चतुर्दशी ।। ७६४ ।। पूर्वभागं परित्यज्य पूर्णिमा गमने वरा । अमावास्या विशेषेण शशिहीना विवर्जिता ॥ ७६५ ॥ उत्तरात्रितयं पुष्यो रविवारे शुभप्रदः । रोहिणी श्रवणं चित्रा सोमवारे सुखावहाः ।। ७६६ ॥ अहिर्बुध्न्यं च पौष्णं च भौमवारे पशस्यते । पुनर्वमुर्गुरोवारे भाग्यं च श्रवणे स्थिते ॥ ७६७ ॥ हरिदेवं द्विदैवं च वहिदैवं शनेर्दिने । धिष्ण्यान्येतानि शस्तानि वारेवेतेषु सर्वदा ॥ ७६८ ॥ हस्तः पुनर्वसुः पुष्यो रेवती मृगशीर्षकम् । अनुराधाधिनी श्रोत्रं शस्तानि गमने नृणाम् ॥ ७६९ ॥ चरलग्ने प्रयातव्यं द्विस्वभावेऽथवा नृपः। लग्ने स्थिरे न गन्तव्यं यात्रायां क्षेममिच्छुभिः ॥ ७७० ॥ अष्टमं जन्मतस्त्यक्त्वा लग्नं द्वादशमेव च । ग्रहाणां च बलं प्राप्य गच्छेदिच्छन् जयं नृपः ॥ ७७१ ॥ गुरुर्लने बुधस्तुर्ये पञ्चमे भृगुनन्दनः । षष्ठे कुजाकेतन्यौ तृतीये चण्डदीधितिः ॥ ७७२ ॥ चन्द्रमा दशमो यस्य स यात्रायां नयी भवेत् । क्षेमेण गमनं तस्य क्षेमेण च निवर्तते ॥ ७७३ ॥
Aho ! Shrutgyanam