________________
९४
मानसोल्लासः ।
बहुलाभं सुसाध्यं च धर्म्य कीर्त्तिविवर्धनम् । कार्य विचार्य कर्तव्यं भूभुजा सुखमिच्छता ।। ७१८ ॥
[ विशतिः २
समावाय - व्ययौ यत्र व्ययो यत्राधिको भवेत् । असाध्यं च शतोपायैः कथञ्चित् तन्न मन्त्रयेत् ॥ ७१९ ॥
अधर्म्यमयशस्यं च पश्चात्तापकरं च यत्
1
दुर्लभं शबहुलं दुर्मन्त्रं तन मन्त्रयेत् ॥ ७२० ॥
कामात् क्रोधाद् भयादन्यल्लोभ्यमानो न मुह्यति । यथा शक्त्या युतः कार्य ( ये ) मन्त्रशक्तिस्तु सा स्मृता ॥ ७२१ ॥
इति मन्त्रशक्त्यध्यायः ॥ ९ ॥
भूमि द्रव्यं गजानश्वान रत्नानि विजयं तथा । ग्रहीतुमुद्यतोऽरीणां विक्रमोपचितो नृपः ॥ ७२२ ॥
प्रारब्धं यत् स्वयं कार्य दैवादु यदि न सिध्यति । न सीदति च तत् कर्तुमुत्साही च पुनः पुनः ॥ ७२३ ||
यस्य स्वादुद्यमे नित्यं चित्तमुत्साहसंयुतम् । उत्साहशक्तिः सा ज्ञेया नृपाणां भूतिमिच्छताम् || ७२४ ॥
इत्युत्साहशक्त्यध्यायः ॥ १० ॥
नाकान्तिसाध्यो यः कश्चिद् देशकालाद्यपेक्षया । तेन सार्द्धं प्रकुर्वीत सन्धि नीतिविचक्षणः ।। ७२५ ॥
जेता शशुं बलिष्ठं यस्तस्मादभ्यधिकेन वा । तत्रापि सन्धि कुर्वीत नयशास्त्रविशारदः ।। ७२६ ॥
बलीयसा पीड्यमानो योद्धुं तेन च न क्षमः । तत्रापि सन्धि कुर्वीत मत्वा नीतिमनुत्तमाम् ।। ७२७ ॥
सन्धितुर्विधः मोक्तो मैत्रः सम्बन्धजस्तथा । परस्परोपकाराख्य उपहारस्तथैव च ।। ७२८ ॥
Aho! Shrutgyanam